श्रीगणेशद्वादशनामस्तोत्रम्
ब्रह्मोवाच ।
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ॥ ३६॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥ ३७॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥ ३८॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ ३९॥
कोटिकन्याप्रदानानि कोटियज्ञं व्रतानि च ।
तपांसि यानि सर्वाणि तीर्थान्यायतनानि च ॥ ४०॥
स्वर्णभारसहस्राणि कोटिदानानि यान्यपि ।
कृच्छ्राणि तप्तकृच्छ्राणि पराकेन्दुव्रतानि च ॥ ४१॥
शतांशमेषां पुण्यस्य तानि नाम्नां न यान्ति च ।
इमानि प्रातरुत्थाय शुचिर्भूत्वा समाहितः ॥ ४२॥
यः पठेन्मानवो भक्त्या विघ्ना नो यान्ति तं नरम् ।
सिद्ध्यन्ति सर्वकार्याणि मोक्षमन्ते व्रजत्यसौ ॥ ४३॥
तस्य दर्शनतो लोका देवाः पूता भवन्ति च ।
अत एव मुने ! सर्वाः शाक्ताः शैवाश्च वैष्णवाः ॥ ४४॥ (सौराः)
उक्त्वा द्वादश नामानि सर्वकार्याणि कुर्वते ।
गाणेशा अपि कुर्वन्ति किमत्रापि च कौतुकम् ॥ ४५॥
न सिद्ध्यन्ति हि कार्याणि द्वादशान्यतमस्य ह ।
उच्चारणं विना ब्रह्मँस्तस्मादेकं समुच्चरेत् ॥ ४६॥
दुष्टानां नास्तिकानां चकार्यं यद् यद्धि सिद्ध्यति ।
तेऽपि बीजं समुच्चार्यमज्ञानादपि कुर्वते ॥ ४७॥
इति श्रीगणेश द्वादशनामानि स्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय ९२ । १.९२ ३६-४७॥
- .. shrIgaNeshapurANaM upAsanA (pUrva)khaNDa . adhyAya 92 . 1.92 36-47..
Some of the verses are same as in mudgalapurANa.
Proofread by Preeti Bhandare