गणेशपञ्चचामरस्तोत्रम् २

गणेशपञ्चचामरस्तोत्रम् २

सुब्रह्मण्ययोगिकृतं गणाधिपाय ते त्वया जगद्विनिर्मितं निजेच्छया च पाल्यतेऽधुना वशे तव स्थितम् । त्वमन्तरात्मकोस्स्यमुष्य तन्मयि स्थितः पुनीहि मां जगत्पतेऽम्बिकातनूज नित्य शाङ्करे ॥ १॥ गणेश्वरः कृपानिधिर्जगत्पतिः परात्परः प्रभुः स्वलीलयाऽभवच्छिवान्मदावलाननः । गिरिन्द्रजातनूभवस्तमेव सर्वकर्मसु प्रपूजयन्ति देहिनः समाप्नुवन्ति चेप्सितम् ॥ २॥ चतुःपुमर्थदायिभिचतुष्करैर्विलम्बिना सहोदरेण सोदरेण पद्मजाण्ड सन्ततेः । पदद्वयेन चापदां निवारकेण भासुरं भजे भवात्मजं प्रभुं प्रसन्नवक्त्रमद्वयम् ॥ ३॥ बलिष्ठमूषिकाधिराजपृष्ठविष्टर- प्रतिष्ठितं गणप्रबर्हपारमेष्ठ्यशोभितम् । गरिष्ठमात्मभक्तकार्य विघ्नवर्गभञ्जने पटिष्ठमाश्रितावने भजामि विघ्ननायकम् ॥ ४॥ भजामि शूर्पकर्णमग्रजं गुहस्य शङ्करा- त्मजं गजाननं समस्तदेव बृन्दवन्दितम् । महान्तरायशान्तिदं मतिप्रदं मनीषिणां गतिं श्रुतिस्मृतिस्तुतं गणेश्वरं मदीश्वरम् ॥ ५॥ यदङ्घ्रिपल्लवस्मृतिर्निरन्तरायसिद्धिदा यमेव बुद्धिशालिनः स्मरन्त्यहर्निशं हृदि । यमाश्रितस्तरत्यलङ्घ्यकालकर्मबन्धनं तमेव चित्सुखात्मकं भजामि विघ्ननायकम् ॥ ६॥ कराम्बुजैः स्फुरद्वराभयाक्षसूत्रपुस्तकं सृणिं सबीजपूरकाब्जपाशदन्तमोदकान् । वहन्किरीटकुण्डलादि दिव्यभूषणोज्ज्वलो गजाननो गणाधिपः प्रभुर्जयत्यहर्निशम् ॥ ७॥ गिरीन्द्रजामहेशयोः परस्परानुरागजं निजानुभूतचित्सुखं सुरैरुपास्य दैवतम् । गणेश्वरं गुरुं गुहस्य विघ्नवर्गघातिनं गजाननं भजाम्यहं न दैवमन्यमाश्रये ॥ ८॥ गणेशपञ्चचामरस्तुतिं पठध्वमादरात् मनीषितार्थदायकं मनीषिणः कलौ युगे । निरन्तरायसिद्धिदं चिरन्तनोक्तिसम्मतं निरन्तरं गणेशभक्ति शुद्धचित्तवृत्तयः ॥ ९॥ इति सुब्रह्मण्ययोगिकृतं गणेशपञ्चचामरस्तोत्रं सम्पूर्णम् । Proofread by Narendran Madathil
% Text title            : Ganeshapanchachamara Stotram
% File name             : gaNeshapanchachAmarastotram2.itx
% itxtitle              : gaNeshapanchachAmarastotram 2 (subrahmaNyayogikRitam gaNAdhipAya te tvayA jagadvinirmitaM)
% engtitle              : gaNeshapanchachAmarastotram 2
% Category              : ganesha, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Author                : Subrahmanyayogi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Narendran Madathil
% Description/comments  : From Vighneshvara-stuti-manjari 4
% Indexextra            : (Scans 1, 2)
% Latest update         : October 1, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org