सोमकान्तकृतं प्रातःस्मरणम्
श्रीगणेशाय नमः ।
सोमकान्त उवाच ।
प्रातर्नमामि गणनाथमशेषहेतुं
ब्रह्मादिदेववरदं सकलागमाढ्यम् ।
धर्मार्थकामफलदं जनमोक्षहेतुं
वाचामगोचरमनादिमनन्तरूपम् ॥ ७॥
प्रातर्नमामि कमलापतिमुग्रवीर्यं
नानावतारनिरतं निजरक्षणाय ।
क्षीराब्धिवासममराधिपबन्धुमीशं
पापापहं रिपुहरं भव मुक्तिहेतुम् ॥ ८॥
प्रातर्नमामि गिरिजापतिमिन्दुमौलिं
व्याघ्राजिनांवृतमुदस्तदयंमनोजे ।
नारायणेन्द्रवरदं सुरसिद्धजुष्टं
सर्पांस्त्रिशूलडमरुदधतं पुरारिम् ॥ ९॥
प्रातर्नमामि दिननाथमघोपहारं
गाढान्धकारहरमुत्तमलोकवन्द्यम् ।
वेदत्रयात्मकमुदस्तसुरारिमायं
ज्ञानैकहेतुमुरुशक्तिमुदारभावम् ॥ १०॥
प्रातर्नमामि गिरिजां भवभूतिहेतुं
संसारसिन्धु परपारकरीं त्रिनेत्राम् ।
तत्त्वादिकारणमुदस्तसुरारिमायां
मायामयीं सुरमुनीन्द्रनुतां सुरेशीम् ॥ ११॥
एवमन्यांश्च संस्मृत्य देवान्मुनिगणांस्तथा ।
मानसैरूपचारैश्च पूजयित्वा क्षमापयेत् ॥ १२॥
इति सोमकान्तकृतं प्रातःस्मरणं सम्पूर्णम् ॥
- ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय ३ । १.३ ७-१२॥
- .. shrIgaNeshapurANaM upAsanA (pUrva)khaNDa . adhyAya 3 . 1.3 7-12..
Proofread by Preeti Bhandare