बल्लालकृतं श्रीगणेशस्तोत्रम्

बल्लालकृतं श्रीगणेशस्तोत्रम्

॥ श्रीगणेशाय नमः ॥ बल्लाल उवाच । गणेशाय धाम्ने परेशाय तुभ्यं सदाऽऽनन्दरूपाय सर्वातिगाय । अपारस्वरूपाय देवाधिदेव नमस्ते प्रभो भक्तसंरक्षकाय ॥ १३॥ हेरम्बाय नमस्तुभ्यं विघ्नेशाय परात्मने । ब्रह्मेशाय महायोगदात्रे शान्तिमयाय ते ॥ १४॥ स्वानन्दवासिने तुभ्यं स्वानन्दे खेलकाय ते । योगेशाय महोदाररूपधारिन्नमो नमः ॥ १५॥ सदा सन्मयकायायाव्यक्तशीर्ष्णे नमो नमः । योगरूपेण सर्वत्र संस्थिताय नमो नमः ॥ १६॥ सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिमयाय च । सिद्धिबुद्धिपते तुभ्यं नमस्ते गजवक्रिणे ॥ १७॥ लम्बोदराय देवाय चतुर्बाहुधराय ते । मूषकध्वजिने तुभ्यं पाशाङ्कुशप्रधारिणे ॥ १८॥ द्विजरूपधरायैव भक्तवत्सलभावतः । रक्षितुं भक्तवाक्यं तु समागताय ते नमः ॥ १९॥ त्वं माता त्वं पिता नाथस्त्वं सुहृत् कुलदैवतम् । द्रव्यं विद्यादिकं मे त्वं सर्वं ते वै नमो नमः ॥ २०॥ देहेन वाचा मनसा कृतान् मे सांसर्गिकान् जागृतिस्वप्नजातान् । संसुप्तितो यान् सकलापराधान् क्षमस्व हेरम्ब दयानिधे त्वम् ॥ २१॥ एवमुक्त्वा ननर्ताऽसौ बल्लालो भक्तियन्त्रितः । साश्रुनेत्रः सरोमाञ्चो ब्राह्मणाग्रे महामुने ॥ २२॥ तमुवाच गणाधीशस्त्यक्त्वा ब्राह्मणरूपकम् । गजाननस्वरूपेण संयुक्तो भक्तमुत्तमम् ॥ २३॥ (फलश्रुतिः) श्रीगणेश उवाच । वरान् ब्रूहि महायोगिन् यांस्ते चित्तगतान् परान् । दास्यामि भक्तितुष्टोऽहं नियमेन महामते ॥ २४॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति नरायैव पठते श‍ृण्वते सदा ॥ २५॥ यं यमिच्छति तं तं तु दास्याम्यनेन संस्तुतः । अन्ते सायुज्यदं मे वै भावि स्तोत्रं विशेषतः ॥ २६॥ इति बल्लालकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥ - ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः ३९ । ८.३९ १३-२६॥ - .. mudgalapurANaM aShTamaH khaNDaH . adhyAyaH 39 . 8.39 13-26.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stotram Ballalakritam
% File name             : gaNeshastotramballAlakRRitaM.itx
% itxtitle              : gaNeshastotram ballAlakRitaM (mudgalapurANAntargataM)
% engtitle              : gaNeshastotram ballAlakRRitaM
% Category              : ganesha, mudgalapurANa, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM aShTamaH khaNDaH | adhyAyaH 39 | 8.39 13-26||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org