धौम्यकृतं श्रीगणेशस्तोत्रम्
॥ श्रीगणेशाय नमः ॥
धौम्य उवाच ।
नमाम्यहं गणेशानं सर्वसिद्धिप्रदायिनम् ।
भक्तानां भवयुक्तानामन्येषां विपरीतगम् ॥ ६॥
धन्योऽहं सर्वभावेष्वधुना दृष्ट्वा गजाननम् ।
किं स्तौमि त्वां महाभाग योगेशं योगरूपिणम् ॥ ७॥
तव दर्शनमात्रेण ज्ञानयुक्तो वदाम्यहम् ।
स्तोत्रं ते प्रीतिदं पूर्णं शृणु सर्वज्ञसत्तम ॥ ८॥
गणेशाय नमस्तुभ्यं योगशान्तिप्रदायिने ।
शान्तीनां शान्तिरूपाय हेरम्बाय नमो नमः ॥ ९॥
अनामयाय ज्येष्ठाय ज्येष्ठपदप्रदायिने ।
ज्येष्ठानां ज्येष्ठरूपाय विघ्नेशाय नमो नमः ॥ १०॥
नामरूपात्मकेष्वेव शक्तिरूपाय ते नमः ।
आत्मसु रवये तुभ्यं समेषु विष्णवे नमः ॥ ११॥
अव्यक्तेषु महेशाय संयोगेषु निजात्मने ।
निवृत्तिषु ह्ययोगाय कलांशेन नमो नमः ॥ १२॥
योगेषु शान्तिरूपाय ब्रह्मणस्पतये नमः ।
आदिमध्यान्तभेदैस्तु खेलकाय नमो नमः ॥ १३॥
नानामायाप्रचालाय सिद्धिबुद्धिपते नमः ।
स्वानन्दवासिने तुभ्यं भक्तरक्षणतत्पर ॥ १४॥
किं स्तौमि त्वां गणाधीश वेदा योगिन एव च ।
न समर्था अतो नाथ प्रणमामि गजाननम् ॥ १५॥
एवमुक्त्वा गणाधीशं पपाताऽसौ धरातले ।
दण्डवद्गणनाथस्य पादौ गृह्य महामुनिः ॥ १६॥
तमुत्थाप्य स्वयं प्राह गणेशो ब्रह्मणां पतिः ।
वरान् वरय धौम्य त्वं दास्यामि स्तोत्रतोषितः ॥ १७॥
स्तोत्रं त्वया कृतं मे यत् पठते शृण्वते सदा ।
सर्वसिद्धिप्रदं चास्तु नानाभावार्थदायकम् ॥ १८॥
योगशान्तिप्रदं पूर्णं मयि भक्तिविवर्धनम् ।
यं यमिच्छति तं तं वै दास्यामि स्तोत्रतोषितः ॥ १९॥
इति धौम्यकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥
- ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः ३५ । ८.३५ ६-१९॥
- .. mudgalapurANaM aShTamaH khaNDaH . adhyAyaH 35 . 8.35 6-19..
Proofread by Yash Khasbage, Preeti Bhandare