गालवकृतं श्रीगणेशस्तोत्रम्
॥ श्रीगणेशाय नमः ॥
गालव उवाच ।
अमेयमायामयरूपधारिणे मायाविहीनाय परात्परात्मने ।
योगाय योगेश सुयोगदायिने विघ्नेश्वरायैव नमो नमः प्रिय ॥ १०॥
अचिन्त्यरूपधाराय विघ्नेशाय नमो नमः ।
सिंहगाय चतुर्बाहुधारकाय सुरूपिणे ॥ ११॥
स्वानन्दनगरस्थायिन् सदा स्वानन्दरूपिणे ।
अनन्तविभवायैव हेरम्बाय नमो नमः ॥ १२॥
लम्बोदराय देवाय देवदेवेशरूपिणे ।
असुराणां निहन्त्रे च असुराय नमो नमः ॥ १३॥
सिद्धिबुद्धिविलासस्य कारिणे ब्रह्मरूपिणे ।
ब्रह्माकारशरीरायैकदन्ताय नमो नमः ॥ १४॥
सगुणाय नमस्तुभ्यं निर्गुणाय गुणात्मने ।
सदा शान्तिप्रदात्रे ते धूम्रवर्णाय ते नमः ॥ १५॥
पाशाङ्कुशधरायैकदन्ताभयप्रधारिणे ।
नाभिशेषाय सर्वादौ पूज्याय ते नमो नमः ॥ १६॥
किं स्तौमि त्वं गणाध्यक्ष यत्र वेदा विसिस्मिरे ।
अतो नमनमात्रेण प्रसन्नो भव विघ्नप ॥ १७॥
इति गालवकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥
- ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः ३३ । ८.३३ १०-१७॥
- .. mudgalapurANaM aShTamaH khaNDaH . adhyAyaH 33 . 8.33 10-17..
Proofread by Yash Khasbage, Preeti Bhandare