जाजलिर्कृतं श्रीगणेशस्तोत्रम्
॥ श्रीगणेशाय नमः ॥
जाजलिरुवाच ।
नमस्ते ब्रह्मनाथाय बल्लालेशस्वरूपिणे ।
बल्लालवरदात्रे ते गणेशाय नमो नमः ॥ ११०॥
विघ्नेशाय महाविघ्ननाशनाय परात्मने ।
भक्तानां भक्तनाथायाभक्तानां विघ्नकारिणे ॥ १११॥
परात्परतरायैव सगुणाय चतुर्भुज ।
निर्गुणाय तयोर्योगे हेरम्बाय नमो नमः ॥ ११२॥
वक्रतुण्डाय देवायैकदन्ताय महोदर ।
लम्बोदराय सर्वेषां मात्रे पित्रे नमो नमः ॥ ११३॥
स्वानन्दवासिने तुभ्यं सदा स्वानन्दभोगिने ।
नानामायाप्रचालाय मायिकाय नमो नमः ॥ ११४॥
सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिमयाय ते ।
अमेयशक्तये चैव शक्तिहीनाय ते नमः ॥ ११५॥
देवाय दानवायैव देवदानवमर्दिने ।
सर्वाकाराय सर्वेभ्यो हीनाय ते नमो नमः ॥ ११६॥
योगानां योगनाथाय शान्तीनां शान्तिरूपिणे ।
ब्रह्मणां पतये तुभ्यं चिन्तामणे नमो नमः ॥ ११७॥
किं स्तौमि त्वां गणाध्यक्ष यत्र वेदा विसिस्मिरे ।
धन्योऽहं सर्वभावैः पश्यामि त्वां योगरूपिणम् ॥ ११८॥
एवमुक्त्वा गणेशानं ननाम भक्तिभावतः ।
तमुत्थाप्य गणेशानो जगाद भक्तवत्सलः ॥ ११९॥
(फलश्रुतिः)
श्रीगणेश उवाच ।
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् ।
पठतां शृण्वतां विप्र मयि भक्तिविवर्धनम् ॥ १२०॥
वरान् ब्रूहि महाभाग दास्यामि मनसीप्सितान् ।
तपसा भक्तिभावेन तुष्टो व्रतेन निश्चितम् ॥ १२१॥
इति जाजलिर्कृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥
- ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः ३७ । ८.३७ ११०-१२१॥
- .. mudgalapurANaM aShTamaH khaNDaH . adhyAyaH 37 . 8.37 110-121..
Proofread by Yash Khasbage, Preeti Bhandare