पाशाय बन्धमोक्षकरं श्रीगणेशस्तोत्रम्
॥ श्रीगणेशाय नमः ॥
अहमुवाच ।
पाशाय शस्त्रराजाय नमस्ते बन्धरूपिणे ।
मोक्षरूपाय वै तुभ्यं गणेशकरभूषण ॥ १॥
मोहो मायामयः प्रोक्तो बन्धदः सर्वजन्तवे ।
गणेशज्ञानयुक्तश्चेद् बन्धहीनो नरो भवेत् ॥ २॥
तदेव बन्धरूपाख्यं शस्त्रं तस्य महात्मनः ।
त्वमेव पाशरूपं वै बन्धमोक्षकरं महत् ॥ ३॥
ये त्वां शरणमापन्नास्तेषां ते बन्धजं भयम् ।
नास्ति शस्त्र च मां पाहि शरणागतमादरात् ॥ ४॥
नमस्ते तेजसां नाथ दुष्टनाशकराय ते ।
पाशाय परमास्त्राय शस्त्राणां ब्रह्मणे नमः ॥ ५॥
एवं स्तुत्वा महापाशं प्रणनाम कृताञ्जलिः ।
अहङ्कारश्च तं त्यक्त्वा पाशो विघ्नेश्वरं ययौ ॥ ६॥
(फलश्रुतिः)
इदं स्तोत्रं पठेद्यस्तु तस्य बन्धो विनश्यति ।
मायापाशमयः साक्षाद्गणेशे स लभेद्गतिम् ॥ ७॥
गतं पाशं विलोक्यैवाहङ्कारो गुरुणा युतः ।
धूम्रवर्णं जगामाऽसौ तं दृष्ट्वा प्रणनाम ह ॥ ८॥
इति पाशाय बन्धमोक्षकरं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥
- ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः ७ । ८.७ १-८॥
- .. mudgalapurANaM aShTamaH khaNDaH . adhyAyaH 7 . 8.7 1-8..
Proofread by Yash Khasbage, Preeti Bhandare