श्रीराधाकृतं गणेशस्तोत्रम्
श्री गणेशाय नमः ।
राधिकोवाच ।
परं धाम परं ब्रह्म परेशं परमीश्वरम् ।
विघ्ननिघ्नकरं शान्तं पुष्टं कान्तमन्तकम् ॥ १॥
सुरासुरेन्द्रैः सिद्धेन्द्रै स्तुतं स्तौमि परात्परम् ।
सुरपद्मदिनेशं च गणेशं मङ्गलायनम् ॥ २॥
इदं स्तोत्रं महापुण्यं विघ्नशोकहरं परम् ।
य पठेत् प्रातरुत्थाय सर्वविघ्नात् प्रमुच्यते ॥ ३॥
इति श्रीब्रह्मवैवर्ते राधाकृतं गणेशस्तोत्रं सम्पूर्णम् ।
विघ्ननाशनस्तोत्रम् ।
Rujuta