गणेशस्तोत्रम् रत्नपञ्चकम् १

गणेशस्तोत्रम् रत्नपञ्चकम् १

(रत्नपञ्चके प्रथमं रत्नम् ।) नत्वा यन्मुनय इहैव यान्ति सर्वे निर्विघ्नं प्रथमत एव तन्नमामि । ब्रह्माद्यं सकलजगद् गणेशरूपं श्रीरामं विमलमनन्तमेकवस्तु ॥ १॥ प्रत्यक्षं त्वमसि गणेश ! सर्वरूपो ब्रह्म त्वं सकलमिदं सनामरूपम् । कर्ता त्वं निखिलचराचरस्य धर्ता हर्ता त्वं त्रिशिवविरञ्चिविष्णुरूपः ॥ २॥ श्रोतारं निजमव मां सदैव शिष्यं वक्तारं ह्यवसि न काऽपि मेऽत्र शङ्का । सर्वास्त्वं सुरनरसाधकान्पितेव दिग्भागात्सकलत एव पाहि नित्यम् ॥ ३॥ सच्चित्त्वं सुखघनवाङ्मयोऽद्वितीयो विज्ञानं परतरवस्तु देव ! साक्षात् । ज्ञानं त्वं सकलमयो जगत्स्वरूपः प्रत्यक्षं शुभतममूर्तिरेव पूर्णः ॥ ४॥ मीमांसा द्विविधा हि गौतममतं वैशेषिकं यौगिकं साङ्ख्यं व्याकरणं निरुक्तमखिलं छन्दोऽथ शिक्षादिषट् । कल्पो ज्यौतिषनीतिधर्मविविधा विद्याः कलाः कीर्तनं ह्यायुःकार्मुकवास्तुवेदविषयाः शाखा गणेशः स्वयम् ॥ ५॥ ब्रह्मा विष्णुश्च रुद्रः सुरपतिरनलो भूर्मुखाः सप्तलोकाः सूर्यस्त्वं चन्द्रमास्त्वं यमवरुणसुरा विश्वतश्चक्षुरेकः । सर्वज्ञः सर्वशक्तिः सरिगमपधनिब्रह्मवीणास्वरूप- स्त्वं नाथो ह्यात्मविद्या सकलसुरमुनिध्येयरूपो गुरुस्त्वम् ॥ ६॥ त्रिकालातीतस्त्वं त्रिगुणरहितो ह्यत्रयवपु- स्त्रिशक्तिर्मूलं त्वं वियदनिलतेजोजलभुवः । महायोगी मौनी यमिह सततं ध्यायति हृदा स आत्मा सर्वेषां सकलसुररूपस्त्वमसि वै ॥ ७॥ लम्बोदरः प्रकृतितः पुरुषात्परोऽयं विघ्नान्तको गणपतिर्जगतोऽस्य हेतुः । आविर्बभूव शिवनन्दनरूवतोऽसौ सृष्टयादिकाल इह भक्तजनावनार्थम् ॥ ८॥ ॐ गं गणेशवरदं प्रणमामि नित्यं लम्बोदरं गजमुखं धृतपाशहस्तम् । भक्तानुकम्पितहृदं जगदीश्वरं तं ध्यायन्ति चात्महृदये मुनियोगिनो यम् ॥ ९॥ विद्याकलागुणनिधिं सकलार्थदं स- च्चित्सौख्यकन्दममृतं प्रभजामि पूर्णम् । निर्विघ्नकारकममुं नु कलौ प्रसन्न - मत्यल्पकालभजनात्स्वपदप्रदं तम् ॥ १०॥ रक्तगन्धरक्तपुष्परक्तवस्त्रधारक- मेकदन्तवक्रतुण्ड रक्तवर्णशाङ्करम् । सूक्ष्मनेत्रशूर्पकर्णकं हि मूषकध्वजं श्रीगणेश ! बुद्धिदायकं मुदा नमाम्यहम् ॥ ११॥ एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ॥ गणेशाय नमस्तुभ्यं तन्नो दन्तिः प्रचोदयात् ॥ १२॥ नमस्ते व्रातपतये नमो विघ्नविनाशिने ॥ नमः प्रमथपतये नमः शिवसुताय ते ॥ १३॥ नमस्ते ह्येकदन्ताय चिच्छ्रीवरदमूर्तये ॥ लम्बोदर गणेशाय शूर्पकर्णाय ते नमः ॥ १४॥ शान्तो दान्तस्तितिक्षुर्गुरुपदकमले पूर्णनिष्ठः सुशिष्यः पूर्णात्मानं गणेशं सकलभयहरं पूर्णभक्त्या विजानन् । ध्यात्वा स्तुत्वाऽथ नत्वा निरतिशयसुखं तत्प्रसादाल्लभेत्सः प्रारब्धं नैव तस्य क्षणिकमपि तदा पूर्णकल्याणमूर्तेः ॥ १५॥ कल्याण सेवककृतं सुगणेशभक्त्या स्तोत्रं चिदक्षरसतो गणनायकस्य । पाठात्तथा सुमननाद्गणराट्सुभक्त्या कल्याणमत्र सलभेच्चिरशान्तिसौख्यम् ॥ १६॥ इति श्रीसमर्थरामदास-कल्याणपदान्वित- कल्याणसेवकप्रणीत रत्नपञ्चके प्रथमं रत्नं गणेशस्तोत्रं सम्पूर्णम् । Proofread by Brahatha Mohan
% Text title            : Ganeshastotram (Ratnapanchakam 1)
% File name             : gaNeshastotramratnapanchakam1.itx
% itxtitle              : gaNeshastotram (ratnapanchakam 1 kalyaANasevakavirachitam natvA yanmunaya ihaiva yAnti sarve)
% engtitle              : gaNeshastotram (ratnapanchakam 1)
% Category              : ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Author                : Kalyanasevaka
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Brahatha Mohan
% Indexextra            : (Scan)
% Latest update         : May 22, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org