श्रीगणेशस्तोत्रम्
सङ्कलित
श्रीगणेशाय नमः ।
अथ गणेशस्तोत्रप्रारम्भः ॥
ॐ बिभ्रदक्षिणहस्तपद्मयुगले दन्ताक्षसूत्रे शुभे
वामे मोदकपूर्णपात्रपरशू नागोपवीती त्रिदृक् ।
श्रीमान्सिंहयुगासनः श्रुतियुगे शङ्खौ वहन्मौलिमान्
दिश्यादीश्वरपुत्र एष भगवाँल्लम्बोदरः शर्म नः ॥ १॥
गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचनः ।
प्रसन्नो भवतां नित्यं वर दाता विनायकः ॥ २॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥ ३॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि गणेशस्य महात्मनः ॥ ४॥
यः पठेच्छृणुयाद्वापि सर्वविघ्नहराणि वै ।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ॥ ५॥
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ।
मुख्यद्वादश नामानि गणेशस्य समाहितः ॥ ६॥
यः पठेत्तु शिवोक्तानि स लभेत्सिद्धिमुत्तमाम् ।
प्रथमं वक्रतुण्डं तु चैकदन्तं द्वितीयकम् ॥ ७॥
तृतीयं कृष्णपिङ्गं तु चतुर्थं तु कपर्दिनम् ।
लम्बोदरं पञ्चमं तु षष्ठं विकटमेव च ॥ ८॥
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ।
नवमं भालचन्द्रं तु दशमं तु विनायकम् ॥ ९॥
एकादशं गणपतिं द्वादशं मन्त्रनायकम् ।
पठते शृणुते यस्तु गणेशस्तवमुत्तमम् ॥ १०॥
विद्यार्थी लभते विद्यां पुत्रार्थी पुत्रमुत्तमम् ।
भार्यार्थी लभते भार्या मोक्षार्थी परमं पदम् ॥ ११॥
इति गणेशस्तोत्रम् ॥
Encoded and proofread by Jonathan Wiener wiener78 at sbcglobal.net