गणेशस्तोत्रम्

गणेशस्तोत्रम्

(शार्दूलविक्रीडितं वृत्तम्) विघ्नान्हन्तीति लोके श्रुतिषु निगदितो यश्च विघ्नघ्न एकः व्यक्ताव्यक्त स्थितौ च प्रणववपुरयं ब्रह्मरूपस्वमात्रः । मायाविद्यादिशून्यो निरवधिरमलोऽरूपतो निर्गुणोऽपि भक्तानां मुक्तिहेतो भवति करुणया सद्गुरुरूपधारी ॥ १॥ सर्वं ब्रह्मैव साक्षाच्छ्रुतिषु निगदितं नेह नानाऽस्ति किञ्चित् माया चैतन्य योगाद्व्यवहरति यदा कार्यरूपप्रतीतिः । चैतन्याभावतो यत्किमपि न च भवेत्स्यान्न मायाऽपि यस्मात् एकश्चैतन्यरूपो गणपतिरथनो तद्वितीयं कथञ्चित् ॥ २॥ रज्जौ सर्पेऽपि दृष्टे न भुजग इति सा कथ्यते रज्जुरेका विश्वे भूम्नीति दृष्टे जगदिति न तथा कथ्यते ब्रह्ममात्रम् । सत्ता सामान्यरूपात्कथित इति च यो दृश्यरूपो न तादृक् दृश्यं यद्विघ्नकृत्स्यात्तदपनयनतो विघ्नहाऽयं स्वबोधात् ॥ ३॥ भात्यस्त्यानन्दरूपो विलसति च सदा दुःखजाड्यानृतेषु नित्यो नित्यादिकानां भवति च ननु यश्चेतनश्चेतनानाम् । दृश्यस्यैतस्य मायाकृत सुखमिह यत्प्रार्थ्यते तद्गणेशो यस्तं सर्वादिभूतं भजत जगति भो सारभूतं वरेण्यम् ॥ ४॥ श्रुत्या यन्निर्विकारं निरतिशयसुखं ब्रह्मतन्मत्स्वरूपं ज्ञात्वा नित्यं हि भूत्वा सकलमपनयन्स्वार्चिषा स्वस्थितोऽहम् । माया तत्कार्यमेतत्स्पृशति न मयि वा बाधते तत्कथञ्चित् मायायाः सर्वशक्तेः पर इति सततं यः स एवाद्वयोऽहम् ॥ ५॥ इति श्रीमत् परमहंस परिव्राजकाचार्य सद्गुरु भगवता श्रीधरस्वामिना विरचितं श्रीगणेशस्तोत्रं सम्पूर्णम् । (रचनाकालः - आषाढ १८८७) Proofread by Paresh Panditrao
% Text title            : Ganesha Stotram
% File name             : gaNeshastotramshrIdharasvAmI.itx
% itxtitle              : gaNeshastotram (shrIdharasvAmIvirachitam vighnAnhantIti loke shrutiShu nigadito)
% engtitle              : gaNeshastotram
% Category              : ganesha, shrIdharasvAmI, stotra, panchaka
% Location              : doc_ganesha
% Sublocation           : ganesha
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : shrIdharasvAmI stotrANi.  shrIdharasandeshaH
% Indexextra            : (Marathi, Collection 1, 2, Selected)
% Latest update         : January 14, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org