गणेशस्तोत्रम्
(शार्दूलविक्रीडितं वृत्तम्)
विघ्नान्हन्तीति लोके श्रुतिषु निगदितो यश्च विघ्नघ्न एकः
व्यक्ताव्यक्त स्थितौ च प्रणववपुरयं ब्रह्मरूपस्वमात्रः ।
मायाविद्यादिशून्यो निरवधिरमलोऽरूपतो निर्गुणोऽपि
भक्तानां मुक्तिहेतो भवति करुणया सद्गुरुरूपधारी ॥ १॥
सर्वं ब्रह्मैव साक्षाच्छ्रुतिषु निगदितं नेह नानाऽस्ति किञ्चित्
माया चैतन्य योगाद्व्यवहरति यदा कार्यरूपप्रतीतिः ।
चैतन्याभावतो यत्किमपि न च भवेत्स्यान्न मायाऽपि यस्मात्
एकश्चैतन्यरूपो गणपतिरथनो तद्वितीयं कथञ्चित् ॥ २॥
रज्जौ सर्पेऽपि दृष्टे न भुजग इति सा कथ्यते रज्जुरेका
विश्वे भूम्नीति दृष्टे जगदिति न तथा कथ्यते ब्रह्ममात्रम् ।
सत्ता सामान्यरूपात्कथित इति च यो दृश्यरूपो न तादृक्
दृश्यं यद्विघ्नकृत्स्यात्तदपनयनतो विघ्नहाऽयं स्वबोधात् ॥ ३॥
भात्यस्त्यानन्दरूपो विलसति च सदा दुःखजाड्यानृतेषु
नित्यो नित्यादिकानां भवति च ननु यश्चेतनश्चेतनानाम् ।
दृश्यस्यैतस्य मायाकृत सुखमिह यत्प्रार्थ्यते तद्गणेशो
यस्तं सर्वादिभूतं भजत जगति भो सारभूतं वरेण्यम् ॥ ४॥
श्रुत्या यन्निर्विकारं निरतिशयसुखं ब्रह्मतन्मत्स्वरूपं
ज्ञात्वा नित्यं हि भूत्वा सकलमपनयन्स्वार्चिषा स्वस्थितोऽहम् ।
माया तत्कार्यमेतत्स्पृशति न मयि वा बाधते तत्कथञ्चित्
मायायाः सर्वशक्तेः पर इति सततं यः स एवाद्वयोऽहम् ॥ ५॥
इति श्रीमत् परमहंस परिव्राजकाचार्य सद्गुरु भगवता
श्रीधरस्वामिना विरचितं श्रीगणेशस्तोत्रं सम्पूर्णम् ।
(रचनाकालः - आषाढ १८८७)
Proofread by Paresh Panditrao