श्रीगणेशस्तोत्रम्
ॐ नमो विघ्नहर्त्रे ।
ॐ अप्रमेयगुणं नित्यं गणेशममरोत्तमम् ।
वेदान्तवेद्यं सर्वज्ञं पूजितममरेश्वरैः ॥ १॥
ओङ्कारं परमंब्रह्म अक्षरं शिवमव्ययम् ।
पार्वतीप्रियपुत्रं तं प्रणमामि गणेश्वरम् ॥ २॥
ब्रह्मद्वयानवच्छेद्यं शिवाद्वयविबोधितम् ।
स्वप्रकाशं परात्मानं तं प्रपद्ये विनायकम् ॥ ३॥
वैरिविघ्नप्रदं नित्यं भक्तानां सिद्धिदायकम् ।
शिवसूनुं परानन्दं नमस्यामि विनायकम् ॥ ४॥
मोदकाहारपरममक्षमालाकरं परम् ।
त्रिनेत्रं गजवक्त्रं च तं प्रपद्ये गणेश्वरम् ॥ ५॥
स्वदन्तं परुशुं चैव धारयन्तं भुजद्वये ।
रक्तवस्त्राम्बरधरं रक्तमालाधरं विभुम् ॥ ६॥
विघ्नराशीन्विकिरन्तं करक्षेपैर्मुहुर्मुहुः ।
अनन्तं परमं तत्त्वं सारात्सारतरं परम् ॥ ७॥
अप्रमेयगुणायापि त्र्यक्षाय वरवर्णिने ।
विनायकाय देवाय भूयो भूयो नमो नमः ॥ ८॥
श्रीगणेशं नुमो यस्य प्रसादात्प्राप्तबुद्धयः ।
प्रौढबुद्धिषु हृष्यन्ति मादृशा अपि वालिशाः ॥ ९॥
श्रीगणेश्वरं भक्तकामदं श्रीकृपानिधिं सर्वसिद्धिदम् ।
ब्रह्मविष्णुदेवेन्द्रगोनुतं भक्तवत्सलं नौम्युमासुतम् ॥ १०॥
वारणाननं वारणाधिपदारुणं बलात्सिद्धिकारणम् ।
तारणं भवाद्विघ्नवारणं भक्तवत्सलं नौम्युमासुतम् ॥ ११॥
शङ्कराङ्कतोऽवातरन्मुदा शैलजाग्रतो हर्षयन्नुभौ ।
षण्मुखेन यो नृत्यते गिरौ भक्तवत्सलं तं नमाम्यहम् ॥ १२॥
शैलजासुतं विश्वमोहनं भक्तवत्सलं कल्मषापहम् ।
सिद्धिदायकं विघ्ननाशकं नौम्यहं सुरैर्वन्द्यपादुकम् ॥ १३॥
श्रीतपस्विनोऽचिन्त्यपौरुषं यं विचिन्त्य प्राक्सर्वसिद्धिदम् ।
सिद्धवाञ्छितास्ते भवन्ति तं भक्तवत्सलं नौम्युमासुतम् ॥ १४॥
यत्पदाब्जपीठासनङ्गणैर्मौलिकोटिभिर्वन्दितं मुहुः ।
प्राप्तसिद्धयस्ते भवन्ति तं भक्तवत्सलं नौम्युमासुतम् ॥ १५॥
दैवतैर्दितेरात्मजैर्नरैर्नागचारणैर्भूतकिन्नरैः ।
गुह्यकादिभिर्वन्दितं सदा भक्तवत्सलं नौम्युमासुतम् ॥ १६॥
चिन्तितं नरैः सिद्धनायकैर्मुक्तयेब्जजेनापि सृष्टये ।
त्रैपुरं च हन्तुं शिवेन वै भक्तवत्सलं नौम्युमासुतम् ॥ १७॥
पाहि पाहि मां विघ्ननायक रक्ष रक्ष मां विघ्ननाशक ।
देव देव त्वां विश्वपूजित भक्तवत्सलं नौम्युमासुतम् ॥ १८॥
पाहि मां विभो दीनपालक रक्ष मां प्रभो दीनवत्सल ।
देहि सम्पदं ह्यापदं हर भक्तवत्सलं नौम्युमासुतम् ॥ १९॥
योऽभ्यर्चितः सुरगणैर्वरसिद्धिहेतो-
श्छेत्तुं भयानि च करे परुशुं दधानः ।
देवः स शम्भुदयितापरिवर्द्धितश्री-
विघ्नान्निवारयतु वारणराजवक्त्रः ॥ २०॥
नमताशेषविघ्नौघवारणं वारणाननम् ।
कारणं सर्वसिद्धीनां दुरितार्णवतारणम् ॥ २१॥
इति गणेशस्तोत्रं सम्पूर्णम् ॥
Encoded by Jonathan Wiener wiener78 at sbcglobal.net
Proofread by Jonathan Wiener, PSA Easwaran