ऋषभकृता श्रीगणेशस्तुतिः

ऋषभकृता श्रीगणेशस्तुतिः

॥ श्रीगणेशाय नमः ॥ ऋषभ उवाच । नमस्ते ब्रह्मरूपाय गणेश करुणानिधे । भेदाभेदादिहीनाय गणानां पतये नमः ॥ ४२॥ निराकाराय नित्याय जगदाकारमूर्तये । अनन्ताय परेशाय परात्परतराय ते ॥ ४३॥ आदिमध्यान्तहीनाय गुणाकाराय ते नमः । गुणेशाय जगत्स्रष्ट्रे पालकाय हराय च ॥ ४४॥ नमो नानावताराय भक्तपालनहेतवे । सुरासुरमयायैव सुरासुरसुपूजित ॥ ४५॥ योगाय योगदात्रे च योगाकाराय ते नमः । योगानां पतये तुभ्यं ब्रह्मणां पतये नमः ॥ ४६॥ सर्वादये गणाध्यक्ष सर्वपूज्याय ढुण्ढये । सर्वान्ते ह्यवशिष्टाय विघ्नेशाय नमो नमः ॥ ४७॥ हेरम्बाय निजानन्दवासिने सिद्धसेवित । सिद्धिबुद्धिपते तुभ्यं नाना खेलकराय ते ॥ ४८॥ धर्मार्थकाममोक्षाणां दायकाय नमो नमः । ब्रह्मीभूतकरायैव ब्रह्मभूतमयाय च ॥ ४९॥ किं स्तौमि त्वां गणाधीश योगशान्तिमयं प्रभो । यं स्तोतुं न समर्थाश्च वेदाद्याः शिवमुख्यकाः ॥ ५०॥ तथापि च यथाबुद्धिज्ञानं त्वं संस्तुतो मया । भक्तिं देहि त्वदीयां मे दृढामव्यभिचारिणीम् ॥ ५१॥ मुद्गल उवाच । इत्युक्त्वा निपपातोर्व्यां पदं धृत्वा महायशाः । गणेशस्य च तेनापि समुत्थापित आदरात् ॥ ५२॥ जगाद गणनाथः स ऋषभं भक्तमुत्तमम् । शिवशिष्यं शिवप्रज्ञं साक्षाद्विष्णुं सनातनम् ॥ ५३॥ (फलश्रुतिः) गणेश उवाच । मदीया भक्तिरत्यन्तं भविष्यत्यचलानघ । स्तोत्रं त्वया कृतं मे तु शान्तिदं प्रभविष्यति ॥ ५४॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः । श्रवणान्नात्र सन्देहो भावपूर्णं मतं मम ॥ ५५॥ इति ऋषभकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः १६ । २.१६ ४२-५५॥ - .. mudgalapurANaM dvitIyaH khaNDaH . adhyAyaH 16 . 2.16 42-55.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stuti Rishabhakrita
% File name             : gaNeshastutiHRRiShabhakRRitA.itx
% itxtitle              : gaNeshastutiH RiShabhakRitA (mudgalapurANAntargatA)
% engtitle              : gaNeshastutiH RRiShabhakRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM dvitIyaH khaNDaH | adhyAyaH 16 | 2.16 42-55||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org