अग्निकृता श्रीगणेशस्तुतिः
॥ श्रीगणेशाय नमः ॥
अग्निरुवाच ।
नमस्ते विघ्ननाशाय भक्तानां हितकारक ।
नमस्ते विघ्नकर्त्रे वै ह्यभक्तानां विनायक ॥ ३४॥
नमो मूषकवाहाय गजवक्त्राय धीमते ।
आदिमध्यान्तहीनायादिमध्यान्तस्वरूपिणे ॥ ३५॥
चतुर्भुजधरायैव चतुर्वर्गप्रदायिने ।
एकदन्ताय वै तुभ्यं हेरम्बाय नमो नमः ॥ ३६॥
लम्बोदराय देवाय गजकर्णाय ढुण्ढये ।
योगशान्तिस्वरूपाय योगशान्तिप्रदायिने ॥ ३७॥
योगिभ्यो योगदात्रे च योगिनां पतये नमः ।
चराचरमयायैव प्रणवाकृतिधारिणे ॥ ३८॥
सिद्धिबुद्धिमयायैव सिद्धिबुद्धिप्रदायक ।
सिद्धिबुद्धिपते तुभ्यं नमो भक्तप्रियाय च ॥ ३९॥
अनन्तानन देवेश प्रसीद करुणानिधे ।
दासोऽहं ते गणाध्यक्ष मां पालय विशेषतः ॥ ४०॥
धन्योऽहं सर्वदेवेषु दृष्ट्वा पादं विनायक ।
कृतकृत्यो महायोगी ब्रह्मभूतो न संशयः ॥ ४१॥
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदा मां शापहीनं त्वं कुरु देवेन्द्रसत्तम ॥ ४२॥
तव भक्तिं दृढां देहि यया मोहो विनश्यति ।
तव भक्तैः सहावासो ममास्तु गणनायक ॥ ४३॥
यदा सङ्कटसंयुक्तस्तदा स्मरणतस्तव ।
निःसङ्कटोऽहमत्यन्तं भवामि त्वत्प्रसादतः ॥ ४४॥
एवमुक्त्वा गणाधीशं प्रणतो भक्तिसंयुतः ।
तमुवाच गणाध्यक्षो भक्तवत्सलभावतः ॥ ४५॥
(फलश्रुतिः)
गणेश उवाच ।
त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् ।
भविष्यति नृणां चैव शृण्वतां पठतां सदा ॥ ४६॥
यं यं चिन्तयसे कामं तं तं दास्यामि शाश्वतम् ।
भक्तिभावेन सन्तुष्टो भृशं स्तोत्रेण संस्थितः ॥ ४७॥
मदीया भक्तिरचला भविष्यति सदाऽनघ ।
सङ्कटं स्मरणेनैव मदीयेन विनश्यति ॥ ४८॥
इति अग्निकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
द्वादशस्तोत्रं
- ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः ४० । २.४०। ३४-४८॥
- .. mudgalapurANaM dvitIyaH khaNDaH . adhyAyaH 40 . 2.40. 34-48..
Proofread by Yash Khasbage, Preeti Bhandare