बल्लालकृता गणेशस्तुतिः
बल्लाल उवाच ।
त्वमेव माताऽसि पिताऽसि बन्धुस्त्वमेव कर्त्ताऽसि चराचरस्य ।
निर्मासि दुष्टाँश्च खलाँश्च साधून् योनौ वियोनौ विनियुङ्क्ष्यथापि ॥ ४५॥
त्वमेव दिक्चक्रनभोधराब्धिगिरीन्द्रकालानलवायुरूपः ।
रवीन्दुताराग्रहलोकपालवर्णेन्द्रियार्थौषधिधातुरूपः ॥ ४६॥
मुनिरुवाच ।
इति स्तुतिं समाकर्ण्य सुप्रसन्नो गजाननः ।
आलिङ्ग्य निजभक्तं तमुवाच घननिस्वनः ॥ ४७॥
गजानन उवाच ।
प्रासादो येन भग्नो मे नरके स पतिष्यति ।
तव शापोऽपि तस्यैवं भविष्यति ममाज्ञया ॥ ४८॥
अन्धोऽथ बधिरः कुब्जो मूकोऽसृक्स्रावसंयुतः ।
मम शापं समासाद्य भविष्यति न संशयः ॥ ४९॥
पिता समातृकं चैनं करिष्यति गहात् बहिः ।
अन्यत् ते वाञ्छितं ब्रूहि दुष्प्रापमपि ते ददे ॥ ५०॥
मुनिरुवाच ।
बल्लालोऽथाब्रवीद् देवं त्वयि भक्तिर्दृढाऽस्तु मे ।
अस्मिन् क्षेत्रे स्थिरो भूत्वा लोकान् रक्षस्व विघ्नतः ॥ ५१॥
गणेश उवाच ।
त्वन्नामपूर्वं मन्नाम भविष्यति जने शुभम् ।
बल्लालविनायकेति नगरे सुप्रतिष्ठितम् ॥ ५२॥
मयि चित्तं स्थिरं ते स्याद् भक्तिरव्यभिचारिणी ।
यात्रां मम करिष्यन्ति नगरे पल्लिसंज्ञके ॥ ५३॥
भाद्रशुक्ल चतुर्थ्यां ये तेषां कामान् ददाम्यहम् ॥ ५४॥
इति बल्लालकृता गणेशस्तुतिः सम्पूर्णा ॥
- ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय २२ । १.२२ ४५-५४॥
- .. shrIgaNeshapurANaM upAsanA (pUrva)khaNDa . adhyAya 22 . 1.22 45-54..
Proofread by Preeti Bhandare