भौमकृता श्रीगणेशस्तुतिः

भौमकृता श्रीगणेशस्तुतिः

(अङ्गारक चतुर्थी व्रतस्तोत्रम्) भौम उवाच । नमस्ते विघ्ननाशाय नमस्ते विघ्नकारिणे । सुरासुराणामीशाय सर्वशक्त्युपबृंहिणे ॥ २२॥ निरामयाय नित्याय निर्गुणाय गुणच्छिदे । नमो ब्रह्मविदां श्रेष्ठ ! स्थितिसंहारकारिणे ॥ २३॥ नमस्ते जगदाधार ! नमस्त्रैलोक्यपालक ! । ब्रह्मादये ब्रह्मविदे ब्रह्मणे ब्रह्मरूपिणे ॥ २४॥ लक्ष्यालक्ष्यस्वरूपाय दुर्लक्षणभिदे नमः । नमः श्रीगणनाथाय परेशाय नमो नमः । इति स्तुतः प्रसन्नात्मा परमात्मा गजाननः ॥ २५॥ यवाचश्लक्ष्णया वाचा बालकं सम्प्रहर्षयन् । गजानन उवाच । तवोग्रतपसा तुष्टो भक्त्या स्तुत्याऽनयाऽपि च ॥ २६॥ बालभावेऽपि धैर्यात्ते ददामि वाञ्छितान् वरान् । एवमुक्तो भूमिपुत्रो वच ऊचे गजाननम् ॥ २७॥ भौम उवाच । धन्या दृष्टिर्जननमपि मे दर्शनात्ते सुरेश धन्यं ज्ञानं कुलमपि विभोः भूः सशैलाऽद्य धन्या । धन्यं चैतत् सकलमपि तपो येन दृष्टोऽखिलेशो धन्या वाणी वसतिरपि यया संस्तुतो मूढभावात् ॥ २८॥ यदि तुष्टोऽसि देवेश ! स्वर्गे भवतु मे स्थितिः । अमृतं पातुमिच्छामि देवैः सह गजानन ॥ २९॥ कल्याणकारी मे नाम ख्यातिमेतु जगत्त्रये । दर्शनं मे चतुर्थ्यां ते जातं पुण्यप्रदं विभो ॥ ३०॥ अतः सा पुण्यदा नित्यं सर्वसङ्कष्टहारिणी । कामदा व्रतकर्तृणां त्वत्प्रसादात् सदाऽस्तु च ॥ ३१॥ गणेश उवाच । अमृतं पास्यसे सम्यग् देवैः सह धरासुत ! । मङ्गलेति च नाम्ना त्वं लोके ख्यातिं गमिष्यसि ॥ ३२॥ अङ्गारकेति रक्तत्वाद् वसुमत्या यतः सुतः । अङ्गारकचतुर्थीं ये करिष्यन्ति नरा भुवि ॥ ३३॥ तेषामब्धसमं पुण्यं सङ्कष्टीव्रतसम्भवम् । निर्विघ्नता सर्वकार्ये भविष्यति न संशयः ॥ ३४॥ अवन्तीनगरे राजा भविष्यसि परन्तप ! । व्रतानामुत्तमं यस्मात् कृतं ते व्रतमुत्तमम् ॥ ३५॥ यस्य सङ्कीर्त्तनान्मर्त्यः सर्वान् कामानवाप्नुयात् । इति भौमकृता श्रीगणेशस्तुतिः सम्पूर्णा अथवा अङ्गारकचतुर्थी व्रतं सम्पूर्णम् ॥ - ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय ६० । १.६० २२-३५॥ - .. shrIgaNeshapurANaM upAsanA (pUrva)khaNDa . adhyAya 60 . 1.60 22-35.. Proofread by Preeti Bhandare
% Text title            : Bhaumakrita Shri Ganesha Stuti
% File name             : gaNeshastutiHbhaumakRRitA.itx
% itxtitle              : gaNeshastutiH bhaumakRitA (gaNeshapurANAntargatA)
% engtitle              : gaNeshastutiH bhaumakRRitA
% Category              : ganesha, gaNeshapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Description/comments  : shrIgaNeshapurANaM upAsanA (pUrva)khaNDaH | adhyAya 60 | 1.60 22-35||
% Indexextra            : (Text)
% Latest update         : April 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org