भौमकृता श्रीगणेशस्तुतिः
(अङ्गारक चतुर्थी व्रतस्तोत्रम्)
भौम उवाच ।
नमस्ते विघ्ननाशाय नमस्ते विघ्नकारिणे ।
सुरासुराणामीशाय सर्वशक्त्युपबृंहिणे ॥ २२॥
निरामयाय नित्याय निर्गुणाय गुणच्छिदे ।
नमो ब्रह्मविदां श्रेष्ठ ! स्थितिसंहारकारिणे ॥ २३॥
नमस्ते जगदाधार ! नमस्त्रैलोक्यपालक ! ।
ब्रह्मादये ब्रह्मविदे ब्रह्मणे ब्रह्मरूपिणे ॥ २४॥
लक्ष्यालक्ष्यस्वरूपाय दुर्लक्षणभिदे नमः ।
नमः श्रीगणनाथाय परेशाय नमो नमः ।
इति स्तुतः प्रसन्नात्मा परमात्मा गजाननः ॥ २५॥
यवाचश्लक्ष्णया वाचा बालकं सम्प्रहर्षयन् ।
गजानन उवाच ।
तवोग्रतपसा तुष्टो भक्त्या स्तुत्याऽनयाऽपि च ॥ २६॥
बालभावेऽपि धैर्यात्ते ददामि वाञ्छितान् वरान् ।
एवमुक्तो भूमिपुत्रो वच ऊचे गजाननम् ॥ २७॥
भौम उवाच ।
धन्या दृष्टिर्जननमपि मे दर्शनात्ते सुरेश
धन्यं ज्ञानं कुलमपि विभोः भूः सशैलाऽद्य धन्या ।
धन्यं चैतत् सकलमपि तपो येन दृष्टोऽखिलेशो
धन्या वाणी वसतिरपि यया संस्तुतो मूढभावात् ॥ २८॥
यदि तुष्टोऽसि देवेश ! स्वर्गे भवतु मे स्थितिः ।
अमृतं पातुमिच्छामि देवैः सह गजानन ॥ २९॥
कल्याणकारी मे नाम ख्यातिमेतु जगत्त्रये ।
दर्शनं मे चतुर्थ्यां ते जातं पुण्यप्रदं विभो ॥ ३०॥
अतः सा पुण्यदा नित्यं सर्वसङ्कष्टहारिणी ।
कामदा व्रतकर्तृणां त्वत्प्रसादात् सदाऽस्तु च ॥ ३१॥
गणेश उवाच ।
अमृतं पास्यसे सम्यग् देवैः सह धरासुत ! ।
मङ्गलेति च नाम्ना त्वं लोके ख्यातिं गमिष्यसि ॥ ३२॥
अङ्गारकेति रक्तत्वाद् वसुमत्या यतः सुतः ।
अङ्गारकचतुर्थीं ये करिष्यन्ति नरा भुवि ॥ ३३॥
तेषामब्धसमं पुण्यं सङ्कष्टीव्रतसम्भवम् ।
निर्विघ्नता सर्वकार्ये भविष्यति न संशयः ॥ ३४॥
अवन्तीनगरे राजा भविष्यसि परन्तप ! ।
व्रतानामुत्तमं यस्मात् कृतं ते व्रतमुत्तमम् ॥ ३५॥
यस्य सङ्कीर्त्तनान्मर्त्यः सर्वान् कामानवाप्नुयात् ।
इति भौमकृता श्रीगणेशस्तुतिः सम्पूर्णा अथवा
अङ्गारकचतुर्थी व्रतं सम्पूर्णम् ॥
- ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय ६० । १.६० २२-३५॥
- .. shrIgaNeshapurANaM upAsanA (pUrva)khaNDa . adhyAya 60 . 1.60 22-35..
Proofread by Preeti Bhandare