ब्रह्माणिकृता श्रीगणेशस्तुतिः
॥ श्रीगणेशाय नमः ॥
ब्रह्माण्यूचुः ।
विघ्नेशाय नमस्तुभ्यं गरुडध्वजिने नमः ।
चतुर्भुजाय सर्वेषां पतये वै नमो नमः ॥ १९॥
चक्रपाणे रमेशाय परात्परतराय च ।
हेरम्बाय विकुण्ठस्य नाथाय ते नमो नमः ॥ २०॥
स्वानन्दवासिने तुभ्यं गजाननाय ढुण्ढये ।
अपाराय महेशानसुताय तु नमो नमः ॥ २१॥
काश्यपाय च शेषस्य पुत्राय भक्तवत्सल ।
दैत्यदानवनाशाय शार्ङ्गिणे ते नमो नमः ॥ २२॥
गदाधराय देवाय वासुदेवाय देवप ।
धर्मस्थापनकाराय ब्रह्मणे ते नमो नमः ॥ २३॥
सदसन्मयरूपाय चानन्दपदधारिणे ।
समाय सर्वभावेषु शाश्वताय नमो नमः ॥ २४॥
नमो वागतिरूपाय देहदेहिप्रचारिणे ।
बोधाय च विदेहाय विष्णवे ते नमो नमः ॥ २५॥
किं स्तुमस्त्वां परेशान यत्र वेदा विकुण्ठिताः ।
योगिनस्तु महाभाग प्रसन्नो भव ते नमः ॥ २६॥
ब्रह्माणि एवं स्तुत्वा च प्रणेमुस्तं जनार्दनम् ।
तान्युत्थाप्य जगाद स्वयं विष्णुर्हर्षसंयुतः ॥ २७॥
(फलश्रुतिः)
विष्णुरुवाच ।
भवत्कृतं मदीयं च स्तोत्रं भुक्तिप्रदं भवेत् ।
मुक्तिदं शृण्वते ब्रह्मदायकं पठते सदा ॥ २८॥
ब्रह्माणि यद्यदिच्छेत तत्तद् वृणुत सत्वरम् ।
दास्यामि तपसा तुष्टः स्तोत्रेणानेन निश्चितम् ॥ २९॥
इति ब्रह्माणिकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
- ॥ मुद्गलपुराणं सप्तमः खण्डः । अध्यायः १० । ७.१० १९-२९॥
- .. mudgalapurANaM saptamaH khaNDaH . adhyAyaH 10 . 7.10 19-29..
Proofread by Yash Khasbage, Preeti Bhandare