चन्द्रकृता श्रीगणेशस्तुतिः

चन्द्रकृता श्रीगणेशस्तुतिः

चन्द्र उवाच । नमामि देवं द्विरदाननं तं यः सर्वविघ्नं हरते जनानाम् । धर्मार्थकामाँस्तनुतेऽखिलानां तस्मै नमो विघ्नविनाशनाय ॥ ४१॥ कृपानिधे ब्रह्ममयाय देव ! विश्वात्मने विश्वविधानदक्ष ! । विश्वस्य बीजाय जगन्मयाय त्रैलोक्यसंहारकृते नमस्ते ॥ ४२॥ त्रयीमयाऽखिलबुद्धिदात्रे बुद्धिप्रदीपाय सुराधिपाय । नित्याय सत्याय च नित्यबुद्धे ! नित्यं निरीहाय नमोऽस्तु नित्यम् ॥ ४३॥ अज्ञानदोषेण कृतोऽपराधस्तं क्षन्तुमर्होऽसि दयाकर ! त्वम् । तवापि दोषः शरणागतस्य त्यागे महात्मन् ! कुरु मेऽनुकम्पाम् ॥ ४४॥ ब्रह्मोवाच । इति तद्वचनं श्रुत्वा सुप्रसन्नो गजाननः । तस्मै वरान् ददौ देवः स्तुत्या नत्या सुतोषितः ॥ ४५॥ यथापूर्वं स्थितं रूपं तथा तत् ते भविष्यति । भाद्रशुक्लचतुर्थ्यां त्वां यो नरः सम्प्रपश्यति ॥ ४६॥ तस्याभिशापो नूनं स्यात् पापं हानिश्च मूर्खता । तस्यामदर्शनीयोऽसि यदुक्तं मे सुरैः सह ॥ ४७॥ कृष्णपक्षे चतुर्थ्यां तु व्रतं यत् क्रियते नरैः । तवोदयेऽहं पूज्यस्त्वं पूजनीयः प्रयत्नतः ॥ ४८॥ दर्शनीयः प्रयत्नेन विपरीते व्रतं वृथा । ललाटे कलया तिष्ठ मम प्रीतिकरः शशिन् ॥ ४९॥ प्रतिमासं दिद्वतीयायां नमस्यश्च भविष्यसि । एवं लब्धवरश्चन्द्रो यथापूर्वोऽभवत् तदा ॥ ५०॥ इति चन्द्रकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय ६१ । १.६१ ४१-५६॥ - .. shrIgaNeshapurANaM upAsanA (pUrva)khaNDa . adhyAya 61 . 1.61 41-56.. Proofread by Preeti Bhandare
% Text title            : Chandrakrita Shri Ganesha Stuti
% File name             : gaNeshastutiHchandrakRRitA.itx
% itxtitle              : gaNeshastutiH chandrakRitA (gaNeshapurANAntargatA)
% engtitle              : gaNeshastutiH chandrakRRitA
% Category              : ganesha, gaNeshapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Description/comments  : shrIgaNeshapurANaM upAsanA (pUrva)khaNDaH | adhyAya 61 | 1.61 41-56||
% Indexextra            : (Text)
% Latest update         : April 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org