चन्द्रकृता श्रीगणेशस्तुतिः

चन्द्रकृता श्रीगणेशस्तुतिः

॥ श्रीगणेशाय नमः ॥ चन्द्र उवाच । नमस्ते विघ्नपालाय गणेशाय परात्मने । ब्रह्मेशाय स्वभक्तेभ्यो ब्रह्मभूयप्रदाय ते ॥ ९५॥ अनामयाय सर्वादिपूज्याय तु नमो नमः । शिवात्मजाय देवाय विष्णुपुत्राय ते नमः ॥ ९६॥ ब्रह्मपुत्राय सूर्यस्य पुत्र ते विघ्नहारिणे । शक्तिपुत्राय शेषस्य पुत्राय च नमो नमः ॥ ९७॥ सर्वपुत्राय सर्वेषां मात्रे पित्रे नमो नमः । सर्वेशाय परेशाय परात्परतराय ते ॥ ९८॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रचालक । हेरम्बाय महेशानां महेशाय नमो नमः ॥ ९९॥ स्रष्टे पात्रे च संहर्त्रे परमात्मस्वरूपिणे । सर्वेभ्यो वरदात्रे तेऽनादिसिद्धाय भो नमः ॥ १००॥ क्षमापराधं देवेश त्वन्मायामोहधारिणः । शरणं ते प्रसन्नस्य रक्ष मां महतो भयात् ॥ १०१॥ मां दृष्ट्वा हर्षसम्पन्ना अभवन् देवतादयः । अधुना मां निरीक्ष्यैव दोषयुक्ता भयातुराः ॥ १०२॥ अतो मां नैव पश्यन्ति पापिनां पापरूपिणम् । निर्दोषं कुरु विघ्नेश करुणालय ते नमः ॥ १०३॥ सर्वदा दर्शनं ते वै ममास्तां विघ्नवारण । तेनाऽहं कृतकृत्यश्च भवेयं योगिसम्मतः ॥ १०४॥ ततोऽतिभक्तिसंयुक्तं नृत्यन्तं देवसन्निधौ । रोमाञ्चाश्रुसमायुक्तं दृष्ट्वा ढुण्ढिर्जगाद तम् ॥ १०५॥ (फलश्रुतिः) श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । अपराधाननन्तांश्च सहे तेऽनेन निश्चितम् ॥ १०६॥ सर्वसिद्धिप्रदं पूर्णं भविष्यति विशेषतः । पठतां श‍ृण्वतां चैव नानासुखकारकं भवेत् ॥ १०७॥ इति चन्द्रकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं चतुर्थः खण्डः । अध्यायः ६ । ४.६। ९५-१०७॥ - .. mudgalapurANaM chaturthaH khaNDaH . adhyAyaH 6 . 4.6. 95-107.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stuti Chandrakrita
% File name             : gaNeshastutiHchandrakRRitA2.itx
% itxtitle              : gaNeshastutiH chandrakRitA 2 (mudgalapurANAntargatA namaste vighnapAlAya gaNeshAya parAtmane)
% engtitle              : gaNeshastutiH chandrakRRitA 2
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM chaturthaH khaNDaH | adhyAyaH 6 | 4.6. 95-107||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org