देवा मुनयश्चकृता श्रीगणेशस्तुतिः
देवा मुनयश्चोचुः ।
नमो विघ्नस्वरूपाय ! नमस्ते विघ्नहारिणे ! ॥ २५॥
नमस्ते सर्वरूपाय ! सर्वसाक्षिन्! नमोऽस्तुते ।
नमो देवाय महते ! नमस्ते जगदादये ! ॥ २६॥
नमः कृपानिधे ! तुभ्यं जगत्पालन हेतवे ! ।
नमस्ते पूर्णतमसे ! सर्वसंहारकारिणे ॥ २७॥
नमस्ते भक्तवरद ! सर्वदात्रे ! नमो नमः ।
नमस्तेऽनन्यशरण ! सर्वकामप्रपूरक ! ॥ २८॥
नमस्ते वेदविदुषे ! नमस्ते वेदकारिणे ! ।
कमन्यं शरणं यामः को नु नः स्याद् भयापह ॥ २९॥
अकाल एव प्रलयः कथं लब्धो जनैरयम् ।
हा गजानन ! देवेश ! हा हा विघ्नहराव्यय ! ॥ ३०॥
सर्वेषां मरणे प्राप्ते कथमस्मानुपेक्षसे ।
इति तद्वचनं श्रुत्वा करुणाब्धिर्गजाननः ॥ ३१॥
आविरासीत् पुरस्तेषां शिशुरूपोऽरिभीतिहा ।
बिभ्रत् कमलनयने शतचन्द्रनिभाननम् ॥ ३२॥
कोटिसूर्यप्रभाजालः कोटिकन्दर्पजिद्वपुः ।
कुन्दकुड्मलशोभाजिद्दशनोऽधरबिम्बजित् ॥ ३३॥
उन्नसो भृकुटीचारुनयनः कम्बुकण्ठयुक् ।
विशालवक्षा जानुस्पृग्भुजद्वययुतो बली ॥ ३४॥
गम्भीरनाभिविलसदुदरोऽतिलसत्कटिः ।
रम्भाशोभापरिस्पर्द्धिगुरुरुश्चासजानुयुक् ॥ ३५॥
सुचारुजङ्घागुल्फश्रीविलसत्पादपद्मकः ।
नानालङ्कारशोभाढ्यो महार्घवसनावृतः ॥ ३६॥
एवं देवं निरीक्ष्यैव नगरस्य पुरो भुवि ।
उत्तस्थुर्देवमुनयो जयशब्दपुरःसरम् ॥ ३७॥
प्रणेमुर्दण्डवद् भूमौ शक्रं देवगणा यथा ।
इति देवा मुनयश्चकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
- ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय ६३ । १.६३ २५-३७॥
- .. shrIgaNeshapurANaM upAsanA (pUrva)khaNDa . adhyAya 63 . 1.63 25-37..
Proofread by Preeti Bhandare