देवपत्नीकृता श्रीगणेशस्तुतिः
देवपत्न्याः ऊचुः
नमस्ते सर्वरूपाय सर्वान्तर्यामिणे नमः ।
नमः सर्वकृते तुभ्यं सर्वदात्रे कृपालवे ॥ २॥
नमः सर्वविनाशाय नमस्तेऽनन्तशक्तये ।
नमः सर्वप्रबोधाय सर्वपात्रेऽखिलादये ॥ ३॥
परब्रह्मस्वरूपाय निर्गुणाय नमो नमः ।
चिदानन्दस्वरूपाय वेदानामप्यगोचर ॥ ४॥
मायाश्रयायामेयाय गुणातीताय ते नमः ।
सत्यायासत्यरूपाय गुणाविक्षोभकारिणे ॥ ५॥
शरणागतपालाय दैत्यदानवभेदिने ।
नमो नानावताराय विश्वरक्षणतत्पर ॥ ६॥
अनेकायुधहस्ताय सर्वशत्रुनिबर्हण ।
अनेकवरदात्रे ते भक्तानां हितकारक ॥ ७॥
क उवाच ।
एवं स्तुत्वा पुनर्नत्वा याचन्ति स्म वरान् बहून् ।
देवानां जलरूपाणां स्वरूपाणि प्रयच्छ भोः ॥ ८॥
नास्मृतिः सर्वदा ते स्यात्तथा कर्तुमिहार्हसि ।
फलश्रुतिः -
गणेश उवाच ।
ददामि वाञ्छितं वोऽहमनुष्ठानवशीकृतः ॥ ९॥
स्तुत्याऽनयाशु सन्तुष्टस्तथाऽस्तु वचनं तु वः ।
सावित्र्या वचनाज्जाता जलभूताः सुराः शुभाः ॥ १०॥
तद्वाक्यमन्यथा कर्तुं न हि शक्तः पितामहः ।
निजं स्वरूपं यास्यन्ति स्थित्वांऽशेन तथाविधान् ॥ ११॥
स्वाधिकारान् प्रपत्स्यन्ते नान्यथा भाषितं मम ।
शमीपत्रैः पूजयन्तू यूयं देवास्तु मामिह ॥ १२॥
येनर्पितं शमीपत्रं भुवनं तेन चार्पितम् ।
सुवर्णशतभाराणां फलं प्राप्तं न संशयः ॥ १३॥
इति देवपत्नीकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
- ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः ३७ । २.३७ २-१३॥
- .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 37 . 2.37 2-13..
Proofread by Preeti Bhandare