इन्द्रकृता श्रीगणेशस्तुतिः
॥ श्रीगणेशाय नमः ॥
इन्द्र उवाच ।
नमस्तेऽस्तु गणाध्यक्ष भक्तेभ्यः सिद्धिदायक ।
विनायकाय देवाय हेरम्बाय नमो नमः ॥ २४॥
अनादये च सर्वेषामादिभूताय ते नमः ।
आदिपूज्याय विघ्नेश सर्वपूज्याय वै नमः ॥ २५॥
आदिमध्यान्तहीनाय ह्यादिमध्यमयाय च ।
अन्त्यरूपाय देवेश विघ्नहर्त्रे नमो नमः ॥ २६॥
पाशाङ्कुशधरायैव सिंहवाहाय ते नमः ।
अमेयाय नमस्तुभ्यं नानामायाधराय च ॥ २७॥
विघ्नकर्त्रे ह्यभक्तानां सदा स्वानन्दवासिने ।
सिद्धिबुद्धिपते तुभ्यं नाभिशेषाय ते नमः ॥ २८॥
ब्रह्मणे ब्रह्मरूपाय ब्रह्मदात्रे कृपालवे ।
धर्मार्थकाममोक्षाणां दात्रे ते वै नमो नमः ॥ २९॥
पूर्णाय पूर्णभावज्ञ पूर्णानन्दप्रदाय वै ।
कर्त्रे हर्त्रे च पात्रे ते गणेशाय नमो नमः ॥ ३०॥
सूक्ष्मेषु सूक्ष्मरूपाय स्थूलेषु स्थूलभोगिने ।
स्थूलसूक्ष्मादिहीनाय लम्बोदर नमोऽस्तु ते ॥ ३१॥
किं स्तौमि त्वां सदा शान्तिरूपं तस्मान्नमो नमः ।
तेन तुष्टो भव स्वामिन् दयाकाराय ते नमः ॥ ३२॥
मुद्गल उवाच ।
एवं स्तुतिं समाकर्ण्य मघवन्तमुवाच ह ।
गणेशो भक्तिभावेन सन्तुष्टो भक्तमुत्तमम् ॥ ३३॥
(फलश्रुतिः)
गणेश उवाच ।
इन्द्र त्वया कृतं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ।
यः पठेच्छृणुयाच्चेद्यस्तस्मै सर्वार्थदं तथा ॥ ३४॥
नित्यं त्वमपि देवेन्द्र पठ स्तोत्रं प्रयत्नतः ।
तेन विघ्नविहीनस्तु भविष्यसि महामते ॥ ३५॥
वरान् ब्रूहि महाभाग ये ते चित्ते भवन्ति वै ।
तान् दास्यामि न सन्देहो भक्त्या स्तोत्रेण तोषितः ॥ ३६॥
इति इन्द्रकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
- ॥ मुद्गलपुराणं तृतीयः खण्डः । अध्यायः ३० । ३.३०। २४-३६॥
- .. mudgalapurANaM tRRitIyaH khaNDaH . adhyAyaH 30 . 3.30. 24-36..
Proofread by Yash Khasbage, Preeti Bhandare