कामकृता श्रीगणेशस्तुतिः
॥ श्रीगणेशाय नमः ॥
काम उवाच ।
गणेशाय नमस्तुभ्यं पाशाङ्कुशविधारिणे ।
दन्ताभयधरायैव मूषकध्वज ते नमः ॥ ३२॥
गजवक्त्राय देवाय शूर्पकर्णाय वै नमः ।
महोदराय पूर्णाय पूर्णानन्दाय ते नमः ॥ ३३॥
सर्वाकाराय सर्वाय स्थूलसूक्ष्मादिभेदिने ।
गुणेशाय गुणानां ते चालकाय नमो नमः ॥ ३४॥
देहदेहिमयायैव प्रकृतेर्लयरूपिणे ।
विदेहाय स्वसंवेद्यपतये ते नमो नमः ॥ ३५॥
रजसा सृष्टिकर्त्रे ते सत्त्वतः पालकाय च ।
तमसा सर्वसंहर्त्रे कर्माकाराय ते नमः ॥ ३६॥
जगद्रूपाय वै तुभ्यं स्थावराय चराय च ।
अनाकाराय हेरम्बाय ब्रह्मपतये नमः ॥ ३७॥
वेदाद्यगम्यरूपाय योगेभ्यो योगदायक ।
किं स्तौमि त्वां गणाधीश अल्पज्ञोऽहं नमोस्तु ते ॥ ३८॥
अधुना मे वरं देहि गजानन दृढां पराम् ।
भक्तिं ते मे सुदेहं वै मां कुरुष्व महोदर ॥ ३९॥
एवमुक्त्वा नतोऽभूत् सस्त्रीकः कामः स तं द्विजाः ।
ततस्तं प्रत्युवाचाथ गणेशो भक्तवत्सलः ॥ ४०॥
इति कामकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
- ॥ मुद्गलपुराणं तृतीयः खण्डः । अध्यायः ४ । ३.४। ३२-४०॥
- .. mudgalapurANaM tRRitIyaH khaNDaH . adhyAyaH 4 . 3.4. 32-40..
Proofread by Yash Khasbage, Preeti Bhandare