ममासुरकृता श्रीगणेशस्तुतिः
॥ श्रीगणेशाय नमः ॥
ममासुर उवाच ।
कमलाय नमस्तुभ्यं गणेशशस्त्रमुख्यक ।
वासनानां परेशाय सुवासधारिणे नमः ॥ ३॥
विषयेषु सुवासेन मोहिताः सम्भ्रमन्ति ते ।
संसारे दुःखसंयुक्ताः सुखयुक्ताः त्वया कृताः ॥ ४॥
योगवासनया युक्ता ब्रह्मभूता भवन्ति ते ।
वासनानां प्रभेदाश्च बहवस्तेषु किं ब्रुवे ॥ ५॥
तेषां ब्रह्मस्वरूपाय खेलकाय नमो नमः ।
विश्वं कमलसम्भूतं पद्माकारं वदन्ति तत् ॥ ६॥
अतस्त्वां कः समर्थः स्यात् स्तोतुं शस्त्रोत्तमोत्तम ।
नमो नमः प्रसन्न त्वं भव मां रक्ष ते भयात् ॥ ७॥
दैत्येशं संस्तुवन्तं तं दृष्ट्वा शान्तिं समादधे ।
कमलं गणराजस्य हस्तगं प्रबभूव ह ॥ ८॥
ममासुरः प्रसन्नात्मा काव्येन विघ्ननायकम् ।
जगाम तं प्रणम्यैव पुपूजे भक्तिसंयुतः ॥ ९॥
पुनः प्रणम्य विघ्नेशं कृत्वा करपुटं प्रिये ।
तुष्टाव हर्षसंयुक्तो ज्ञात्वा तं ब्रह्मनायकम् ॥ १०॥
इति ममासुरकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
- ॥ मुद्गलपुराणं सप्तमः खण्डः । अध्यायः ८ । ७.८ ३-१०॥
- .. mudgalapurANaM saptamaH khaNDaH . adhyAyaH 8 . 7.8 3-10..
Proofread by Yash Khasbage, Preeti Bhandare