श्रीगणेशस्तुतिः मङ्गलाचरणम्
॥ श्रीगणेशाय नमः ॥
गणाधिपं तं गुण ग्रामवारिधिं
शैलेन्द्रकन्यात्मजवाञ्छिप्रदम् ।
अशेषनिर्विघ्नकरं सुमङ्गलं
नमामिविघ्नेश्वर पादपङ्कजम् ॥ १॥
गजाकृतिन्तं गणनाथमेकं
शैलेन्द्रजायात्म समुद्भवञ्च ।
विद्याप्रदं बुद्धिप्रदञ्चलोकान्
विघ्नेश्वरं विघ्नहरं नमामि ॥ २॥
चतुर्भुजं सुन्दरमेकदन्तं
शङ्खाङ्कुशं मोदकमेक हस्तम् ।
वक्षायतं तुङ्गमहोदरं शुभं
नमामिनित्यं गणनायकं विभुम् ॥ ३॥
पार्वती तनयं देवं कोटि सूर्य सम प्रभाम् ।
निर्विघ्नं कुरुमेनित्यं प्रसन्नोभव सर्वदा ॥ ४॥
एकदन्तं वक्रतुण्डं सर्वविघ्नविनाशकम् ।
भालचन्द्रं शान्तमूर्तिं सूपकर्णम्मसुशोभनम् ॥ ५॥
मङ्गलायतनं शान्तं वाञ्छितफलदायकम् ।
कोटिसूर्य समाभासं चन्द्रकोटि समाननम् ॥ ६॥
कोटिकन्दर्पलावण्यं कोटिसद्गुणसागरम् ।
सर्वत्रानन्ददातारं मङ्गलागार सर्वदा ॥ ७॥
सिद्धिबुद्धि समायुक्तं क्षेमलाभसमन्वितम् ।
ज्ञानदं बुद्धिदं देवं तं नमामि गजानम् ॥ ८॥
इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं गणेशाष्टकं सम्पूर्णम् ।
Proofread by Paresh Panditrao