प्रकृतिकृता श्रीगणेशस्तुतिः
॥ श्रीगणेशाय नमः ॥
प्रकृतिरुवाच ।
नमस्ते विघ्ननाथाय गणेशाय परात्मने ।
अनाथाय विशेषेण सर्वनाथाय ते नमः ॥ ३९॥
नमो मूषकवाहाय मूषकध्वजिने नमः ।
स्वानन्दपतये तुभ्यं गणानां पतये नमः ॥ ४०॥
सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे ।
योगेशाय सदा शान्तिप्रदात्रे योगिने नमः ॥ ४१॥
सर्वादये सदा सर्वपूज्याय भक्तपालका ।
ज्येष्ठराजाय ज्येष्ठानां पतये ते नमो नमः ॥ ४२॥
ब्रह्मणे ब्रह्मदात्रे वै ब्रह्मणां पतये नमः ।
सिद्धेश्वराय देवानां दैत्यानां पतये नमः ॥ ४३॥
चतुर्भुजाय हेरम्ब परशोर्धारकाय ते ।
अङ्कुशन्धारिणे तुभ्यं निरङ्कुश नमो नमः ॥ ४४॥
रजसा सृष्टिकर्त्रे ते पालने सात्त्विकाय ते ।
तामसाय महाहन्त्रे गुणेशाय नमो नमः ॥ ४५॥
स्थावराय चरायैव चराचरमयाय ते ।
चराचरविहीनाय बोधाय च नमो नमः ॥ ४६॥
चतुर्विधस्वरूपाय चतुर्विधसुखप्रद ।
चतुःसुखस्वरूपाय स्वसंवेद्याय ते नमः ॥ ४७॥
विनायकाय सर्वेषां नायकाय नमो नमः ।
गजाननाय देवाय देवदेवेश ते नमः ॥ ४८॥
किं स्तौमि त्वां गणाध्यक्ष ब्रह्मणस्पतिरूपिणम् ।
यं स्तोतुं न समर्थाश्च योगिनो वेदमुख्यकाः ॥ ४९॥
तवदर्शनबोधेन तथापि संस्तुतो मया ।
तेन तुष्टो भव स्वामिन् भक्तिं देहि दृढां त्वयि ॥ ५०॥
इति स्तुत्वा श्रीगणेशानं दण्डवत् प्रणनाम तम् ।
तामुत्थाप्य गणाधीश उवाच व्रतमातरम् ॥ ५१॥
(फलश्रुतिः)
गणेश उवाच ।
वरं वृणु महाभागे यं यमिच्छसि शोभने ।
तं तं दास्यामि सुप्रीतो भक्त्या स्तोत्रेण तोषितः ॥ ५२॥
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् ।
यः पठेच्छृणुयाद्देवि ईप्सितं लभते नरः ॥ ५३॥
एककालं द्विकालं वा त्रिकालं लभते सदा ।
अव्रती व्रतसाफल्यं पठनान्नात्र संशयः ॥ ५४॥
इति प्रकृतिकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
- ॥ मुद्गलपुराणं चतुर्थः खण्डः । अध्यायः १ । ४.१। ३९-५४॥
- .. mudgalapurANaM chaturthaH khaNDaH . adhyAyaH 1 . 4.1. 39-54..
Proofread by Yash Khasbage, Preeti Bhandare