पुलहकृता श्रीगणेशस्तुतिः

पुलहकृता श्रीगणेशस्तुतिः

॥ श्रीगणेशाय नमः ॥ पुलह उवाच । नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । विघ्नदात्रे ह्यभक्तानां गणेशाय नमो नमः ॥ ७॥ ब्रह्मणे ब्रह्मरूपाय निराकाराय ते नमः । साक्षिणे सर्वसंस्थायानादिसिद्धाय ते नमः ॥ ८॥ अनामयाय देवायाऽप्रतर्क्याय महौजसे । वक्रतुण्डाय वै तुभ्यं हेरम्बाय नमो नमः ॥ ९॥ स्वानन्दवासिने तुभ्यं भक्तसंरक्षकाय च । योगानां पतये चैव योगदायिन्नमो नमः ॥ १०॥ शान्ताय शान्तरूपाय शान्तीनां पतये नमः । भक्तेभ्यः शान्तिदात्रे च योगशान्ताय ते नमः ॥ ११॥ नानावताररूपाय जगदाधारमूर्तये । सुरासुराणामीशाय सर्वगाय नमो नमः ॥ १२॥ सर्ववन्द्याय वै तुभ्यं सर्वादौ संस्थिताय च । सर्वान्त एकरूपाय मध्ये नानास्वरूपिणे ॥ १३॥ आदिमध्यान्तहीनाय सृष्टिस्थित्यन्तकारिणे । अनन्तोदरसंस्थाय लम्बोदर नमोऽस्तु ते ॥ १४॥ गजवक्त्राय वै तुभ्यं गजाकाराय ते नमः । गजकर्णाय पूर्णाय गजानन नमोऽस्तु ते ॥ १५॥ मूषकध्वजरूपाय मूषकारूढरूपिणे । पाशाङ्कुशधरायैव स्तुताय च विभूतिभिः ॥ १६॥ चतुर्भुजधरायैव चतुर्वर्गमयाय च । ब्रह्मभूतस्वरूपाय देहधारिन्नमो नमः ॥ १७॥ यं वेदवादिनः स्तोतुं वेदाः साङ्गाश्च योगिनः । शिवविष्णुमुखा देवा न समर्था भवन्ति वै ॥ १८॥ तं कथं स्तौमि देवेशं योगरूपमयं प्रभुम् । अतो वै प्रणमामि त्वां प्रसन्नो भव सर्वदा ॥ १९॥ वरं मे देहि योगात्मन् तेन तुष्टो भवाम्यहम् । तव भक्तिं दृढां ढुण्ढे व्यभिचारविवर्जिताम् ॥ २०॥ एवमुक्त्वा मुनिस्तत्र ननर्त प्रेमविह्वलः । तं भक्तिरससंयुक्तमुवाच गणनायकः ॥ २१॥ (फलश्रुतिः) गणेश उवाच । मदीया सुदृढा भक्तिर्व्यभिचारविवर्जिता । भविष्यति महायोगिन् तव चानन्ददायिका ॥ २२॥ यदा मे स्मरणं त्वं वै करिष्यसि महामते । तदा मां द्रक्ष्यसि ब्रह्मन् संस्थितं तव सन्निधौ ॥ २३॥ भवत्कृतं मदीयं यत्स्तोत्रं भक्तिप्रदं भवेत् । भुक्तिमुक्तिप्रदं प्रोक्तं शान्तियोगप्रदायकम् ॥ २४॥ इति पुलहकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः १८ । २.१८ ७-२४॥ - .. mudgalapurANaM dvitIyaH khaNDaH . adhyAyaH 18 . 2.18 7-24.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stuti Pulahakrita
% File name             : gaNeshastutiHpulahakRRitA.itx
% itxtitle              : gaNeshastutiH pulahakRitA (mudgalapurANAntargatA)
% engtitle              : gaNeshastutiH pulahakRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM dvitIyaH khaNDaH | adhyAyaH 18 | 2.18 7-24||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org