रेणुकाजमदग्नीकृता श्रीगणेशस्तुतिः
॥ श्रीगणेशाय नमः ॥
रेणुकाजमदग्नी उचतुः ।
नमस्ते विघ्नपालाय भक्तानां विघ्नहारिणे ।
विघ्नकर्त्रे ह्यभक्तानां ब्रह्मभूताय ते नमः ॥ ६॥
अनादये त्वनाधार वक्रतुण्डस्वरूपिणे ।
गणेशान अनन्तानां गणानां पतये नमः ॥ ७॥
नानाशक्तियुतायैव नानाभेदकराय ते ।
नानाभेदविहीनाय हेरम्बाय नमो नमः ॥ ८॥
अमेयमायया चैव खेलकाय च ढुण्ढये ।
सिद्धिबुद्धिसहायाय सिद्धिबुद्धिवराय च ॥ ९॥
स्वानन्दपतये तुभ्यं भक्तेभ्यो योगदायिने ।
योगाकाराय योगाय शान्तिदाय नमो नमः ॥ १०॥
अखण्डानन्दरूपाय भुक्तिमुक्तिप्रदाय च ।
लम्बोदराय देवाय चैकदन्ताय ते नमः ॥ ११॥
महोदराय विघ्नानां पतये सुखदायिने ।
मूषकध्वजिने तुभ्यं नमो मूषकवाहन ॥ १२॥
चतुर्भुजाय सर्वेषामादिपूज्याय भोगिने ।
ज्येष्ठराजाय सर्वेषां पितृमातृस्वरूपिणे ॥ १३॥
यं स्तोतुं न समर्थाश्च वेदा देवाः शिवादयः ।
योगिनस्तं कथं चावां ह्यतस्त्वां प्रणमावहे ॥ १४॥
एवं स्तुत्वा गणेशानं प्रणतौ भक्तिसंस्तुतौ ।
तावुत्थाप्य गणाधीश ऊचिवान् हर्षसंयुतः ॥ १५॥
(फलश्रुतिः)
गणेश उवाच ।
वरं च वृणुतं पुत्रौ दास्यामि मनसीप्सितम् ।
यमिच्छथो महाभागौ भक्तिभावनियन्त्रितः ॥ १६॥
इति रेणुकाजमदग्नीकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
- ॥ मुद्गलपुराणं तृतीयः खण्डः । अध्यायः ३७ । ३.३७। ६-१६॥
- .. mudgalapurANaM tRRitIyaH khaNDaH . adhyAyaH 37 . 3.37. 6-16..
Proofread by Yash Khasbage, Preeti Bhandare