श्रीगणेशस्य चतुर्युगावतारवर्णनम्
शृण्वन्तु मे पुनर्वाक्यं सिन्धुदैत्येन पीडिताः ।
शरणं मे प्रपन्नाश्च यज्ञवेदाविवर्जिताः ॥ ३७॥
निरुद्धा गण्डकीदेशे स्वधास्वाहाविवर्जिताः ।
ततो ह्यस्य वधं कर्तुमवतारान्तरं मम ॥ ३८॥
गिरिजाया गृहे देवा भविष्यामि च साम्प्रतम् ।
मयूरेश्वरनाम्नाऽहं ख्यातिं यास्ये तदा च वः ॥ ३९॥
पदानामाश्रमाणां च प्राप्तिः सिन्धौ हते मया ।
भविष्यति न सन्देहो यतः कृतयुगे सुराः ॥ ४०॥
सिंहारूढो दशभुजस्तेजोरूपी विनायकः ।
षड्भुजः शशिवर्णश्च त्रेतायां बर्हिवाहनः ॥ ४१॥
मयूरेश्वरनामा च द्वापरे रक्तवर्णवान् ।
चतुर्बाहुराखुवाहो भूत्वा चाहं गजाननः ॥ ४२॥
ततः कलियुगे प्राप्ते श्यामवर्णो दृषन्मयः ।
धूमकेतुरिति ख्यातो भविष्यामि सुरा अहम् ॥ ४३॥
शीघ्रमेव करिष्यामि भवतां वाञ्छितं सुराः ।
इति श्रीगणेशस्य चतुर्युगावतारवर्णनं सम्पूर्णम् ॥
- ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः ७८ । २.७८ ३७-४३॥
- .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 78 . 2.78 37-43..
Proofread by Preeti Bhandare