श्रीगणेशप्रोक्तम् श्रीगणेशवज्रपञ्जरस्तोत्रम्

श्रीगणेशप्रोक्तम् श्रीगणेशवज्रपञ्जरस्तोत्रम्

(श्रीशिव उवाच । वज्रपञ्जरकं नाथ ब्रूहि मे गणपप्रियम् । ज्ञानमयं महान्धस्य नाशकं सुखदायकम् ॥ ३६॥ श्रीगणेश उवाच । आदौ नित्यविधिं कृत्वा पूजयित्वा गजाननम् । वज्रपञ्जरकं ग्राह्यं सर्वाज्ञानविनाशनम् ॥ ३७॥) त्रिनेत्रं गजास्यं चतुर्बाहुधारं परश्वादिशस्त्रैर्युतं भालचन्द्रम् । नराकारदेहं सदा योगशान्तं गणेशं भजे सर्ववन्द्यं परेशम् ॥ ३८॥ एवं ध्यात्वा गणेशानं मानसैरुपचारकैः । पूजयेत्तं नमस्कृत्य धारयेद्वज्रपञ्जरम् ॥ ३९॥ बिन्दुरूपो वक्रतुण्डो रक्षतु मे हृदि स्थितः । देहांश्चतुर्विधांस्तत्वांस्तत्वाधारः सनातनः ॥ ४०॥ देहमोहयुतं ह्येकदन्तः सोऽहं स्वरूपधृक् । देहिनं मां विशेषेण रक्षतु भ्रमनाशकः ॥ ४१॥ महोदरस्तथा देवो नानाबोधान् प्रतापवान् । सदा रक्षतु मे बोधानन्दसंस्थो ह्यहर्निशम् ॥ ४२॥ साङ्ख्यान् रक्षतु साङ्ख्येशो गजाननः सुसिद्धिदः । असत्येषु स्थितं मां स लम्बोदरश्च रक्षतु ॥ ४३॥ सत्सु स्थितं सुमोहेन विकटो मां परात्परः । रक्षतु भक्तवात्सल्यात् सदैकामृतधारकः ॥ ४४॥ आनन्देषु स्थितं नित्यं मां रक्षतु समात्मकः । विघ्नराजो महाविघ्नैर्नानाखेलकरः प्रभुः ॥ ४५॥ अव्यक्तेषु स्थितं नित्यं धूम्रवर्णस्वरूपधृक् । मां रक्षतु सुखाकारः सहजः सर्वपूजितः ॥ ४६॥ स्वसंवेद्येषु संस्थं मां गणेशः स्वस्वरूपधृक् । रक्षतु योगभावेन संस्थितो भवनायकः ॥ ४७॥ अयोगेषु स्थितं नित्यं मां रक्षतु गणेश्वरः । निवृत्तिरूपधृक् साक्षादसमाधिसुखे रतः ॥ ४८॥ योगशान्तिधरो मां तु रक्षतु योगसंस्थितम् । गणाधीशः प्रसन्नात्मा सिद्धिबुद्धिसमन्वितः ॥ ४९॥ पुरो मां गजकर्णश्च रक्षतु विघ्नहारकः । वाह्न्यां याम्यां च नैरृत्यां चिन्तामणिर्वरप्रदः ॥ ५०॥ रक्षतु पश्चिमे ढुण्ढिर्हेरम्बो वायुदिक् स्थितम् । विनायकश्चोत्तरे तु प्रमोदश्चेशदिक् स्थितम् ॥ ५१॥ उर्ध्वं सिद्धिपतिः पातु बुद्धीशोऽधः स्थितं सदा । सर्वाङ्गेषु मयूरेशः पातु मां भक्तिलालसः ॥ ५२॥ यत्र तत्र स्थितं मां तु सदा रक्षतु योगपः । परशुपाशसंयुक्तो वरदाभयधारकः ॥ ५३॥ इदं गणपतेः प्रोक्तं वज्रपञ्जरकं परम् । धारयस्व महादेव विजयी त्वं भविष्यसि ॥ ५४॥ य इदं पञ्जरं धृत्वा यत्र कुत्र स्थितो भवेत् । न तस्य जायते क्वापि भयं नानास्वभावजम् ॥ ५५॥ यः पठेत् पञ्जरं नित्यं स ईप्सितमवाप्नुयात् । वज्रसारतनुर्भूत्वा चरेत् सर्वत्र मानवः ॥ ५६॥ त्रिकालं यः पठेन्नित्यं स गणेश इवापरः । निर्विघ्नः सर्वकार्येषु ब्रह्मभूतो भवेन्नरः ॥ ५७॥ यः श‍ृणोति गणेशस्य पञ्जरं वज्रसंज्ञकम् । आरोग्यादिसमायुक्तो भवते गणपप्रियः ॥ ५८॥ धनं धान्यं पशून् विद्यामायुष्यं पुत्रपौत्रकम् । सर्वसम्पत्समायुक्तमैश्वर्यं पठनाल्लभेत् ॥ ५९॥ न भयं तस्य वज्रात्तु चक्राच्छूलाद्भवेत् कदा । शङ्करादेर्महादेव पठनादस्य नित्यशः ॥ ६०॥ यं यं चिन्तयते मर्त्यस्तं तं प्राप्नोति शाश्वतम् । पठनादस्य विघ्नेश पञ्जरस्य निरन्तरम् ॥ ६१॥ लक्षावृत्तिभिरेवं स सिद्धपञ्जरको भवेत् । स्तम्भयेदपि सूर्यं तु ब्रह्माण्डं वशमानयेत् ॥ ६२॥ (॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते मार्गशीर्षमासमाहात्म्ये वज्रपञ्जरकथनं नाम त्रयोविंशोऽध्यायः ॥ ८.२३) इति श्रीगणेशप्रोक्तम् श्रीगणेशवज्रपञ्जरस्तोत्रं सम्पूर्णम् । - ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः २३ । ८.२३ ३८-६२॥ - .. mudgalapurANaM aShTamaH khaNDaH . adhyAyaH 23 . 8.23 38-62.. Proofread by Yash Khasbage
% Text title            : Shri Ganeshavajrapanjara Stotram Shri Ganeshaproktam
% File name             : gaNeshavajrapanjarastotramgaNeshaproktam.itx
% itxtitle              : gaNeshavajrapanjarastotram gaNeshaproktam (mudgalapurANAntargataM)
% engtitle              : gaNeshavajrapanjarastotram gaNeshaproktam
% Category              : ganesha, mudgalapurANa, panjara, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage
% Description/comments  : mudgalapurANaM aShTamaH khaNDaH | adhyAyaH 23 | 8.23 38-62||
% Indexextra            : (Scans 1, 2)
% Latest update         : May 7, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org