श्रीगणेश्वर-पञ्चकम्
ॐ श्रीगणेशाय नमः ।
प्रणमामि गणेश्वरं विद्यालोक-प्रदायकम् ।
अज्ञान-ध्वान्त-हन्तारं ह्येकदन्तं विनायकम् ॥ १॥
सुन्दरं सिन्धुराननं सिद्धिबुद्धि-सुकीर्त्तिदम् ।
अम्बिकानन्दनं वन्दे लम्बोदरं शिवप्रियम् ॥ २॥
शुभदं स्कन्दभ्रातरं यशस्करं मुदावहम् ।
पाशाङ्कुशधरं देवं भालचन्द्रं भजाम्यहम् ॥ ३॥
सर्वजन-समाराध्य ! दिव्य-खर्वतनूभृते ।
विघ्नसन्तति-हारिणे विघ्नराज ! नमोस्स्तु ते ॥ ४॥
देहि ज्ञानं समुज्ज्वलं गच्छतु मनसस्तमः ।
कृपा विधीयतां प्रभो! गणाधीश्वर ! ते नमः ॥ ५॥
इति श्रीहरेकृष्णमेहेर-विरचितं श्रीगणेश्वर-पञ्चकं सम्पूर्णम् ।
Copyright Dr.Harekrishna Meher