श्रीगकारगणेशाष्टोत्तरशतनामावलिः
ॐ गणेश्वराय नमः ।
ॐ गणाध्यक्षाय नमः ।
ॐ गणत्रात्रे नमः ।
ॐ गणञ्जयाय नमः ।
ॐ गणनाथाय नमः ।
ॐ गणक्रीडाय नमः ।
ॐ गणकेलिपरायणाय नमः ।
ॐ गणप्राज्ञाय नमः ।
ॐ गण्यधाम्ने नमः ।
ॐ गणप्रवणमानसाय नमः । (१०)
ॐ गणसौख्यप्रदात्रे नमः ।
ॐ गणभूतये नमः ।
ॐ गणेष्टदाय नमः ।
ॐ गणराजाय नमः ।
ॐ गणश्रीदाय नमः ।
ॐ गणगौरवदायकाय नमः ।
ॐ गुणातीताय नमः ।
ॐ गुणस्रष्ट्रे नमः ।
ॐ गुणत्रयविभागकृते नमः ।
ॐ गुणप्रचारिणे नमः । (२०)
ॐ गुणवते नमः ।
ॐ गुणहीनपराङ्मुखाय नमः ।
ॐ गुणप्रविष्टाय नमः ।
ॐ गुणपाय नमः ।
ॐ गुणज्ञाय नमः ।
ॐ गुणबन्धनाय नमः ।
ॐ गजराजाय नमः ।
ॐ गजपतये नमः ।
ॐ गजकर्णाय नमः ।
ॐ गजाननाय नमः । (३०)
ॐ गजदन्ताय नमः ।
ॐ गजाधीशाय नमः ।
ॐ गजरूपाय नमः ।
ॐ गजध्वनये नमः ।
ॐ गजमुखाय नमः ।
ॐ गजवन्द्याय नमः ।
ॐ गजदन्तधराय नमः ।
ॐ गजाय नमः ।
ॐ गजराजे नमः ।
ॐ गजयूथस्थाय नमः । (४०)
ॐ गर्जितत्रातविष्टपाय नमः ।
ॐ गजदैत्यासुरहराय नमः ।
ॐ गजगञ्जक भञ्जकाय नमः ।
ॐ गानश्लाघिने नमः ।
ॐ गानगम्याय नमः ।
ॐ गानतत्वविवेचकाय नमः ।
ॐ गानज्ञाय नमः ।
ॐ गानचतुराय नमः ।
ॐ गानज्ञानपरायणाय नमः ।
ॐ गुरुप्रियाय नमः । (५०)
ॐ गुरुगुणाय नमः ।
ॐ गुरुतत्वार्थदर्शनाय नमः ।
ॐ गुरुवन्द्याय नमः ।
ॐ गुरुभुजाय नमः ।
ॐ गुरुमायाय नमः ।
ॐ गुरुप्रभाय नमः ।
ॐ गुरुविद्याय नमः ।
ॐ गुरुप्राणाय नमः ।
ॐ गुरुबाहु बलाश्रयाय नमः ।
ॐ गुरुशुण्डाय नमः । (६०)
ॐ गुरुस्कन्धाय नमः ।
ॐ गुरुजङ्घाय नमः ।
ॐ गुरुप्रथाय नमः ।
ॐ गुर्वङ्गुलये नमः ।
ॐ गुरुफलाय नमः ।
ॐ गुरुश्रिये नमः ।
ॐ गुरुगर्वनुदे नमः ।
ॐ गुरूरसे नमः ।
ॐ गुरुपीनांसाय नमः ।
ॐ गुरुप्रणयलालसाय नमः । (७०)
ॐ गुरुधर्माग्रगण्याय नमः ।
ॐ गुरुमान्यप्रदायकाय नमः ।
ॐ गुरुधर्मसदाराध्याय नमः ।
ॐ गुरुशास्त्रालयाय नमः ।
ॐ गुरुमन्त्राय नमः ।
ॐ गुरुश्रेष्ठाय नमः ।
ॐ गुरुसंसारदुःखभिदे नमः ।
ॐ गुरुपुत्रप्राणदात्रे नमः ।
ॐ गुरुपाषण्डखण्डकाय नमः ।
ॐ गुरुपुत्रार्तिशमनाय नमः । (८०)
ॐ गुरुपुत्रवरप्रदाय नमः ।
ॐ गौरभानुपरित्रात्रे नमः ।
ॐ गौरभानुवरप्रदाय नमः ।
ॐ गौरीतेजस्समुत्पन्नाय नमः ।
ॐ गौरीहृदयनन्दनाय नमः ।
ॐ गौरीस्तनन्धयाय नमः ।
ॐ गौरीमनोवाञ्छितसिद्धिकृते नमः ।
ॐ गौतमीतीरसञ्चरिणे नमः ।
ॐ गौतमाभयदायकाय नमः ।
ॐ गोपालाय नमः । (९०)
ॐ गोधनाय नमः ।
ॐ गोपाय नमः ।
ॐ गोपगोपीसुखावहाय नमः ।
ॐ गोष्ठप्रियाय नमः ।
ॐ गोलोकाय नमः ।
ॐ गोदोग्ध्रे नमः ।
ॐ गोपयः प्रियाय नमः ।
ॐ ग्रन्थसंशयसञ्छेदिने नमः ।
ॐ ग्रन्थिभिदे नमः ।
ॐ ग्रन्धविघ्नघ्ने नमः । (१००)
ॐ गयातीर्थफलाध्यक्षाय नमः ।
ॐ गयासुरवरप्रदाय नमः ।
ॐ गकारबीजनिलयाय नमः ।
ॐ गकाराय नमः ।
ॐ ग्रहवन्दिताय नमः ।
ॐ गर्भदाय नमः ।
ॐ गणकश्लाघ्याय नमः ।
ॐ गुरुराज्यसुखप्रदाय नमः । (१०८)
इति श्रीगकारगणेशाष्टोत्तरशतनामावलिः सम्पूर्णा ।
Proofread by Narendran Madathil