गन्धर्वादि अन्यदेवगणैः कृतं रामनाथस्तोत्रम्

गन्धर्वादि अन्यदेवगणैः कृतं रामनाथस्तोत्रम्

गन्धर्वा ऊचुः । रामनाथ त्वमस्माकं भजतां भवसागरे । अपारे दुःखकल्लोले न त्वत्तोन्या गतिर्हि नः ॥ ७५॥ किन्नरा ऊचुः । रामनाथ भवारण्ये व्याधिव्याघ्रभयानके । त्वामन्तरेण नास्माकं पदवीदर्शको भवेत् ॥ ७६॥ यक्षा ऊचुः । रामनाथेन्द्रियारातिबाधा नो दुःसहा सदा । तान्विजेतुं सहायस्त्वमस्माकं भव धूर्जटे ॥ ७७॥ नागा ऊचुः । अचिन्त्यमहिमानं त्वां रामनाथ वयं कथम् । स्तोतुमल्पधियः शक्ता भविष्यामोंऽबिकापते ॥ ७८॥ किम्पुरुषा ऊचुः । नानायोनौ च जननं मरणं चाप्यनेकशः । विनाशय तथाऽज्ञानं रामनाथ नमोऽस्तु ते ॥ ७९॥ विद्याधरा ऊचुः । अम्बिकापतये तुभ्यमसङ्गाय महात्मने । नमस्ते रामनाथाय प्रसीद वृषभध्वज ॥ १.४९.८०॥ वसव ऊचुः । रामनाथगणेशाय गणवृन्दार्चिताङ्घ्रये । गङ्गाधराय गुह्याय नमस्ते पाहि नः सदा ॥ ८१॥ विश्वेदेवा ऊचुः । ज्ञप्तिमात्रैकनिष्ठानां मुक्तिदाय सुयोगिनाम् । रामनाथाय साम्बाय नमोऽस्मान् रक्ष शङ्कर ॥ ८२॥ मरुत ऊचुः । परतत्त्वाय तत्त्वानां तत्त्वभूताय वस्तुतः । नमस्ते रामनाथाय स्वयम्भानाय शम्भवे ॥ ८३॥ साध्या ऊचुः । स्वातिरिक्तविहीनाय जगत्सत्ताप्रदायिने । रामेश्वराय देवाय नमोऽविद्याविभेदिने ॥ ८४॥ सर्वे देवा ऊचुः । सच्चिदानन्दसम्पूर्णं द्वैतवस्तुविवर्जितम् । ब्रह्मात्मानं स्वयम्भानमादिमध्यान्तवर्जितम् ॥ ८५॥ अविक्रियमसङ्गं च परिशुद्धं सनातनम् । आकाशादिप्रपञ्चानां साक्षिभूतं परामृतम् ॥ ८६॥ प्रमातीतं प्रमाणानामपि बोधप्रदायिनम् । आविर्भावतिरोभावसङ्कोचरहितं सदा ॥ ८७॥ स्वस्मिन्नध्यस्तरूपस्य प्रपञ्चस्यास्य साक्षिणम् । निर्लेपं परमानन्दं निरस्तसकलक्रियम् ॥ ८८॥ भूमानन्दं महात्मानं चिद्रूपं भोगवर्जितम् । रामनाथं वयं सर्वे स्वपातकविशुद्धये ॥ ८९॥ चिन्तयामः सदा चित्ते स्वात्मानन्दबुभुत्सवः । रक्षास्मान्करुणासिन्धो रामनाथ नमोऽस्तु ते ॥ १.४९.९०॥ रामनाथाय रुद्राय नमः संसारहारिणे । ब्रह्मविष्ण्वादिरूपेण विभिन्नाय स्वमायया ॥ ९१॥ इति श्रीस्कन्दपुराणे ब्रह्मखण्डे सेतुखण्डे एकोनपञ्चाशत्तमाध्यायान्तर्गतं अन्यदेवताकृतं रामनाथस्तोत्रं समाप्तम् । स्कन्दपुराण । ब्रह्मखण्ड । सेतुल्खण्ड । अध्याय ४९/७५-९१॥ skandapurANa . brahmakhaNDa . setulkhaNDa . adhyAya 49/75-91.. Proofread by PSA Easwaran
% Text title            : Gandharvadi Anyadevaganaih Kritam Ramanatha Stotram
% File name             : gandharvAdianyadevagaNaiHkRRitaMrAmanAthastotram.itx
% itxtitle              : rAmanAthastotram (gandharvAdianyadevagaNaiHkRitaM skandapurANAntargatam)
% engtitle              : gandharvAdianyadevagaNaiHkRRitaM rAmanAthastotram
% Category              : ganesha, skandapurANa, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : skandapurANa | brahmakhaNDa | setulkhaNDa | adhyAya 49/75-91||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, 8, English)
% Latest update         : April 5, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org