नरनारायणकृता हेरम्बस्तुतिः
॥ श्रीगणेशाय नमः ॥
नरनारायणावूचतुः ।
नमस्ते गणनाथाय भक्तसंरक्षकाय ते ।
भक्तेभ्यो भक्तिदात्रे वै हेरम्बाय नमो नमः ॥ ११॥
अनाथानां विशेषेण नाथाय गजवक्त्रिणे ।
चतुर्बाहुधरायैव लम्बोदर नमोऽस्तु ते ॥ १२॥
ढुण्ढये सर्वसाराय नानाभेदप्रचारिणे ।
भेदहीनाय देवाय नमश्चिन्तामणे नमः ॥ १३॥
सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिस्वरूपिणे ।
योगाय योगनाथाय शूर्पकर्णाय ते नमः ॥ १४॥
सगुणाय नमस्तुभ्यं निर्गुणाय परात्मने ।
सर्वपूज्याय सर्वाय देवदेवाय ते नमः ॥ १५॥
ब्रह्मणां ब्रह्मणे तुभ्यं सदा शान्तिप्रदायक ।
सुखशान्तिधरायैव नाभिशेषाय ते नमः ॥ १६॥
पूर्णाय पूर्णनाथाय पूर्णानन्दाय ते नमः ।
योगमायाप्रचालाय खेलकाय नमो नमः ॥ १७॥
अनादये नमस्तुभ्यमादिमध्यान्तमूर्तये ।
स्रष्ट्रे पात्रे च संहर्त्रे सिंहवाहाय ते नमः ॥ १८॥
गताभिमानिनां नाथस्त्वमेवात्र न संशयः ।
तेन हेरम्बनामाऽसि विनायक नमोऽस्तु ते ॥ १९॥
किं स्तुवस्त्वां गणाधीश योगाभेदमयं परम् ।
अतस्त्वां प्रणमावो वै तेन तुष्टो भव प्रभो ॥ २०॥
एवमुक्त्वा नतौ तत्र नरनारायणावृषी ।
तावुत्थाप्य गणेशान उवाच घननिस्वनः ॥ २१॥
(फलश्रुतिः)
हेरम्ब उवाच ।
वरं चित्तेप्सितं दास्यामि ब्रूतं भक्तियन्त्रितः ।
महाभागावादिमुनी योगमार्गप्रकाशकौ ॥ २२॥
भवत्कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् ।
पठते शृण्वते चैव भुक्तिमुक्तिप्रदं तथा ॥ २३॥
यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ।
मम भक्तिप्रदं चैव भविष्यति सुसिद्धिदम् ॥ २४॥
इति नरनारायणकृता हेरम्बस्तुतिः सम्पूर्णा ॥
- ॥ मुद्गलपुराणं तृतीयः खण्डः । अध्यायः १३ । ३.१३। ११-२४॥
- .. mudgalapurANaM tRRitIyaH khaNDaH . adhyAyaH 13 . 3.13. 11-24..
Proofread by Yash Khasbage, Preeti Bhandare