रामकृता हेरम्बस्तुतिः

रामकृता हेरम्बस्तुतिः

॥ श्रीगणेशाय नमः ॥ राम उवाच । हेरम्बाय नमस्तुभ्यं दीनकर्त्रे कृपालवे । दीनानाथस्वरूपाणां कर्त्रे ते वै नमो नमः ॥ ७७॥ ईश्वराणां च दीनानामभेदाय च ते नमः । विघ्नेशाय गणानां वै पतये ते नमो नमः ॥ ७८॥ अनादये च सर्वेषामादिरूपाय ते नमः । अन्तमध्यप्रतिष्ठाय लम्बोदर नमो नमः ॥ ७९॥ चिन्तामणे च चित्तानां चालकाय नमो नमः । भेदाभेदादिहीनाय तदाकाराय ते नमः ॥ ८०॥ सर्वपूज्याय सर्वादिपूज्याय परमात्मने । अनन्ताय परेशाय ढुण्ढिराजाय ते नमः ॥ ८१॥ पूर्णाय पूर्णनाथाय स्वानन्दस्थाय ते नमः । सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिवराय च ॥ ८२॥ समर्थानां च ते भक्तिहीनानां दैन्यकारिणे । दीनानां भक्तियुक्तानां नमः सामर्थ्यकारिणे ॥ ८३॥ दीनत्वं च समर्थत्वं त्वदधीनं न संशयः । अतो मां रक्ष योगेश योगेशाय नमो नमः ॥ ८४॥ किं स्तौमि त्वां गणाधीश शान्तियोगस्वरूपिणम् । न समर्थाश्च वेदा यं योगीन्द्रास्तत्र कोऽप्यहम् ॥ ८५॥ रामस्य तस्य स्तुवत एवं सम्भक्तिभावितः । रोमोद्गमः प्रादुरासीत् कण्ठरोधस्तथैव च ॥ ८६॥ ततो भक्तिरसे मग्नं रामं वीक्ष्य गजाननः । जगाद तं वरं ब्रूहि मनसीप्सितमादरात् ॥ ८७॥ (फलश्रुतिः) हेरम्ब उवाच । त्वया कृतमिदं स्तोत्रं भवेन् मत्प्रीतिवर्धनम् । शान्तियोगप्रदं चैव भक्तिलक्षणवर्धनम् ॥ ८८॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । श्रवणेन न सन्देहः प्रियो मे स भविष्यति ॥ ८९॥ इति रामकृता हेरम्बस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं तृतीयः खण्डः । अध्यायः २६ । ३.२६। ७७-८९॥ - .. mudgalapurANaM tRRitIyaH khaNDaH . adhyAyaH 26 . 3.26. 77-89.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Heramba Stuti Ramakrita
% File name             : herambastutiHrAmakRRitA.itx
% itxtitle              : herambastutiH rAmakRitA (mudgalapurANAntargatA)
% engtitle              : herambastutiH rAmakRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM tRitIyaH khaNDaH | adhyAyaH 26 | 3.26. 77-89||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org