इक्ष्वाकुकृतं गणेशस्तोत्रम्

इक्ष्वाकुकृतं गणेशस्तोत्रम्

इक्ष्वाकुरुवाच । नमस्कृत्य महादेवं स्तोष्येऽहं तं विनायकम् ॥ ५॥ महागणपतिं शूरमजितं ज्ञानवर्धनम् । एकदन्तं द्विदन्तं च चतुर्दन्तं चतुर्भुजम् ॥ ६॥ त्र्यक्षं त्रिशूलहस्तं च रक्तनेत्रं वरप्रदम् । आम्बिकेयं शूर्पकर्णं प्रचण्डं च विनायकम् ॥ ७॥ आरक्तं दण्डिनं चैव वह्निवक्त्रं हुतप्रियम् । अनर्चितो विघ्नकरः सर्वकार्येषु यो नृणाम् ॥ ८॥ तं नमामि गणाध्यक्षं भीममुग्रमुमासुतम् । मदमत्तं विरूपाक्षं भक्तविघ्ननिवारकम् ॥ ९॥ सूर्यकोटिप्रतीकाशं भिन्नाञ्जनसमप्रभम् । बुद्धं सुनिर्मलं शान्तं नमस्यामि विनायकम् ॥ १०॥ नमोऽस्तु गजवक्त्राय गणानां पतये नमः । मेरुमन्दररूपाय नमः कैलासवासिने ॥ ११॥ विरूपाय नमस्तेऽस्तु नमस्ते ब्रह्मचारिणे । भक्तस्तुताय देवाय नमस्तुभ्यं विनायक ॥ १२॥ त्वया पुराण पूर्वेषां देवानां कार्यसिद्धये । गजरूपं समास्थाय त्रासिताः सर्वदानवाः ॥ १३॥ ऋषीणां देवतानां च नायकत्वं प्रकाशितम् । यतस्ततः सुरैरग्रे पूज्यसे त्वं भवात्मज ॥ १४॥ त्वामाराध्य गणाध्यक्षं सर्वज्ञं कामरूपिणम् । कार्यार्थं रक्तकुसुमै रक्तचन्दनवारिभिः ॥ १५॥ रक्ताम्बरधरो भूत्वा चतुर्थ्यामर्चयेज्जपेत् । त्रिकालमेककालं वा पूजयेन्नियताशनः ॥ १६॥ राजानं राजपत्रं वा राजमन्त्रिणमेव वा । राज्यं च सर्वविघ्नेश वशं कुर्यात् सराष्ट्रकम् ॥ १७॥ अविघ्नं तपसो मह्यं कुरु नौमि विनायक । मयेत्थं संस्तुतो भक्त्या पूजितश्च विशेषतः ॥ १८॥ यत्फलं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् । तत्फलं पूर्णमाप्नोति स्तुत्वा देवं विनायकम् ॥ १९॥ विषमं न भवेत्तस्य न च गच्छेत् पराभवम् । न च विघ्नो भवेत्तस्य जातो जातिस्मरो भवेत् ॥ २०॥ य इदं पठते स्तोत्रं षड्भिर्मासैर्वरं लभेत् । संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ २१॥ इति नरसिंहपुराणे २५-अध्यायान्तर्गतं इक्ष्वाकुकृतं गणेशस्तोत्रं सम्पूर्णम् । नरसिंहपुराण । अध्याय २५/५-२१॥ narasiMhapurANa . adhyAya 25/5-21.. Proofread by PSA Easwaran
% Text title            : Ikshvakukritam Ganesha Stotram
% File name             : ikShvAkukRRitaMgaNeshastotram.itx
% itxtitle              : gaNeshastotram (ikShvAkukRitaM narasiMhapurANAntargatam)
% engtitle              : ikShvAkukRRitaM gaNeshastotram
% Category              : ganesha, narasiMhapurANa, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : narasiMhapurANa | adhyAya 25/5-21||
% Indexextra            : (Scan, Hindi, English)
% Latest update         : April 5, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org