काशीस्थितान् पञ्चविनायकपूजोपदेशम्

काशीस्थितान् पञ्चविनायकपूजोपदेशम्

- शिवपार्वतीसंवादे - पूजनीयाः प्रयत्नेन सर्वथा मोदकप्रियाः । शिवप्रीतिकरा नित्यं शुद्धाः पञ्चविनायकाः ॥ ८३॥ क्षिप्रसिद्धिकरं क्षिप्रं गणेशं सुरवन्दितम् । सम्पूज्य पूर्ववत्सम्यग्जगदीशं विनायकम् ॥ ८४॥ आशाविनायकं सम्यक्पूजयित्वा ततः परम् । अर्कविघ्नेश्वरं(रः) सम्यक्पूजनीयः प्रयत्नतः ॥ ८५॥ पूर्ववत्पूजयित्वा तु तत्र सिद्धिविनायकम् । पूजनीयस्ततः सम्यक् चिन्तामणिविनायकः ॥ ८६॥ सेनाविनायकोऽप्येवं सम्पूज्य तदनन्तरम् । दुर्गाविनायकस्यापि पूजा कार्या ततः परम् ॥ ८७॥ एवं सम्पूज्य विधिवद्भक्तिश्रद्धासमन्वितैः । शैवाः शङ्करतत्त्वज्ञा भोजनीयाः प्रयत्नतः ॥ ८८॥ एवं सम्पूजिताः सम्यक्प्रीतास्ते गणनायकाः । काशीवासं प्रयच्छन्त्ति निर्विघ्नेनैव सादरम् ॥ ८९॥ आज्येन कापिलेनैव सार्धलक्षत्रयाहुतीः । हुत्वैतन्नाभिः सम्यक्सर्वविद्याधिपो भवेत् ॥ ९०॥ एतानि दिव्यनामानि प्रतिवासरमादरात् । पठित्वा गणनाथस्य पूजा कार्या प्रयत्नतः ॥ ९१॥ यस्य कस्यापि सन्तुष्टो गणपः सर्वसिद्धिदः । अत एव सदा पूज्यो गणनाथो विचक्षणैः ॥ ९२॥ गणेशादपरो लोके विघ्नहर्ता न विद्यते । तस्मादन्वहमाराध्यो गणेशः सर्वसिद्धिदः ॥ ९३॥ काशीनिवाससिध्यर्थं विष्णुना पूजितः पुरा । पुरा विघ्नेश्वरः सम्यक्पूजितो दण्डपाणिना ॥ ९४॥ कार्कोटकेण नागेन गणेश पूजितः पुरा । शेषेण पूजितः पूर्वं गणेशः सिद्धिदायकः ॥ ९५॥ काशीयात्रार्थमुद्युक्तो विधिर्विघ्नकुलाकुलः । पूजयामास विघ्नेशं विधिवद्भक्तिपूर्वकम् ॥ ९६॥ सूर्येणाभ्यर्चितं पूर्वं चन्द्रेणेन्द्रेण च प्रिये । देवैरन्यैश्च विधिवत्पूजितो गणनायकः ॥ ९७॥ मर्त्यानाममराणां च मुनीनां च वरानने । न सिध्यन्त्येव कार्याणि गणेशाभ्यर्चनं विना ॥ ९८॥ ॥ इति शिवरहस्यान्तर्गते काशीस्थितान् पञ्चविनायकपूजोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १२ । ८३-९८॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 12 . 83-98.. Notes: Śiva शिव tells Pārvatī पार्वती about the importance of worshiping Pañcavināyaka-s पञ्चविनायकाः of Kaśī काशी; viz., Arkavighneśvara अर्कविघ्नेश्वर, Āśāvināyaka आशाविनायक, Siddhivināyaka सिद्धिविनायक, Senāvināyaka सेनाविनायक, Durgāvināyaka दुर्गाविनायक. Kaśī काशी harbors several TīrthaKṣetra तीर्थक्षेत्र that are outlined in ŚivaRahasyam saptāṃśaḥ शिवरहस्यं सप्तांशः. Proofread by Ruma Dewan
% Text title            : Kashisthitan Panchavinayakapujopadesham
% File name             : kAshIsthitAnpanchavinAyakapUjopadesham.itx
% itxtitle              : panchavinAyakapUjopadesham (kAshIsthitAn shivarahasyAntargatam)
% engtitle              : kAshIsthitAn panchavinAyakapUjopadesham
% Category              : ganesha, upadesha, advice, shiva, shivarahasya
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 12 | 83-98||
% Indexextra            : (Scan)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org