काशीस्थितान् पञ्चविनायकपूजोपदेशम्
- शिवपार्वतीसंवादे -
पूजनीयाः प्रयत्नेन सर्वथा मोदकप्रियाः ।
शिवप्रीतिकरा नित्यं शुद्धाः पञ्चविनायकाः ॥ ८३॥
क्षिप्रसिद्धिकरं क्षिप्रं गणेशं सुरवन्दितम् ।
सम्पूज्य पूर्ववत्सम्यग्जगदीशं विनायकम् ॥ ८४॥
आशाविनायकं सम्यक्पूजयित्वा ततः परम् ।
अर्कविघ्नेश्वरं(रः) सम्यक्पूजनीयः प्रयत्नतः ॥ ८५॥
पूर्ववत्पूजयित्वा तु तत्र सिद्धिविनायकम् ।
पूजनीयस्ततः सम्यक् चिन्तामणिविनायकः ॥ ८६॥
सेनाविनायकोऽप्येवं सम्पूज्य तदनन्तरम् ।
दुर्गाविनायकस्यापि पूजा कार्या ततः परम् ॥ ८७॥
एवं सम्पूज्य विधिवद्भक्तिश्रद्धासमन्वितैः ।
शैवाः शङ्करतत्त्वज्ञा भोजनीयाः प्रयत्नतः ॥ ८८॥
एवं सम्पूजिताः सम्यक्प्रीतास्ते गणनायकाः ।
काशीवासं प्रयच्छन्त्ति निर्विघ्नेनैव सादरम् ॥ ८९॥
आज्येन कापिलेनैव सार्धलक्षत्रयाहुतीः ।
हुत्वैतन्नाभिः सम्यक्सर्वविद्याधिपो भवेत् ॥ ९०॥
एतानि दिव्यनामानि प्रतिवासरमादरात् ।
पठित्वा गणनाथस्य पूजा कार्या प्रयत्नतः ॥ ९१॥
यस्य कस्यापि सन्तुष्टो गणपः सर्वसिद्धिदः ।
अत एव सदा पूज्यो गणनाथो विचक्षणैः ॥ ९२॥
गणेशादपरो लोके विघ्नहर्ता न विद्यते ।
तस्मादन्वहमाराध्यो गणेशः सर्वसिद्धिदः ॥ ९३॥
काशीनिवाससिध्यर्थं विष्णुना पूजितः पुरा ।
पुरा विघ्नेश्वरः सम्यक्पूजितो दण्डपाणिना ॥ ९४॥
कार्कोटकेण नागेन गणेश पूजितः पुरा ।
शेषेण पूजितः पूर्वं गणेशः सिद्धिदायकः ॥ ९५॥
काशीयात्रार्थमुद्युक्तो विधिर्विघ्नकुलाकुलः ।
पूजयामास विघ्नेशं विधिवद्भक्तिपूर्वकम् ॥ ९६॥
सूर्येणाभ्यर्चितं पूर्वं चन्द्रेणेन्द्रेण च प्रिये ।
देवैरन्यैश्च विधिवत्पूजितो गणनायकः ॥ ९७॥
मर्त्यानाममराणां च मुनीनां च वरानने ।
न सिध्यन्त्येव कार्याणि गणेशाभ्यर्चनं विना ॥ ९८॥
॥ इति शिवरहस्यान्तर्गते काशीस्थितान् पञ्चविनायकपूजोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १२ । ८३-९८॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 12 . 83-98..
Notes:
Śiva शिव tells Pārvatī पार्वती about the importance of worshiping Pañcavināyaka-s पञ्चविनायकाः of Kaśī काशी; viz., Arkavighneśvara अर्कविघ्नेश्वर, Āśāvināyaka आशाविनायक, Siddhivināyaka सिद्धिविनायक, Senāvināyaka सेनाविनायक, Durgāvināyaka दुर्गाविनायक.
Kaśī काशी harbors several TīrthaKṣetra तीर्थक्षेत्र that are outlined in ŚivaRahasyam saptāṃśaḥ शिवरहस्यं सप्तांशः.
Proofread by Ruma Dewan