श्रीकल्पकगणेशपञ्चरत्नस्तवः

श्रीकल्पकगणेशपञ्चरत्नस्तवः

श्रीमदुमापतिशिवप्रणीतः श्रीमत्तिल्ववने सभेशसदन-प्रत्यक्ककुब्गोपुरा- धोभागस्थित चारुसद्मवसतिर्भक्तेष्टकल्पद्रुमः । नृत्तानन्दमदोत्कटो गणपतिः संरक्षताद्वोऽनिशं दूर्वासः प्रमुखाखिलर्षि विनुतः सर्वेश्वरोऽग्र्योऽव्ययः ॥ १॥ श्रीमत्तिल्लवनाभिधं पुरवरं क्षुल्लावुकं प्राणिनां इत्याहुर्मुनयः किलेति नितरां ज्ञातुं च तत्सत्यताम् । आयान्तं निशि मस्करीन्द्रमपि यो दूर्वाससं प्रीणयन् नृत्तं दर्शयति स्म नो गणपतिः कल्पद्रुकल्पोऽवतात् ॥ २॥ देवान् नृत्तदिदृक्षया पशुपतेरभ्यागतान् कामिनः शक्रादीन् स्वयमुद्धृतं निजपदं वामेतरं दर्शयन् । दत्वा तत्तदभीष्टवर्गमनिशं स्वर्गादिलोकान्विभुः निन्ये यः शिवकामिनाथतनयः कुर्याच्छिवं वोऽन्वहम् ॥ ३॥ अस्माकं पुरतश्चकास्तु भगवान् श्रीकल्पकाख्योऽग्रणीः गोविन्दादि सुरार्चितोऽमृतरसप्राप्त्यै गजेन्द्राननः । वाचं यच्छतु निश्चलां श्रियमपि स्वात्मावबोधं परं दारान् पुत्रवरांश्च सर्वविभवं कात्यायनीशात्मजः ॥ ४॥ वन्दे कल्पक कुञ्जरेन्द्रवदनं वेदोक्तिभिस्तिल्वभू- देवैः पूजितपादपद्मयुगलं पाशच्छिदं प्राणिनाम् । दन्तादीनपि षड्भुजेषु दधतं वाञ्छाप्रदत्वाप्तये स्वाभ्यर्णाश्रयिकामधेनुमनिशं श्रीमुख्यसर्वार्थदम् ॥ ५॥ औमापत्यमिमं स्तवं प्रतिदिनं प्रातर्निशं यः पठेत् श्रीमत्कल्पककुञ्जरानन-कृपापाङ्गाव लोकान्नरः । यं यं कामयते च तं तमखिलं प्राप्नोति निर्विघ्नतः कैवल्यं च तथाऽन्तिमे वयसि तत्सर्वार्थसिद्धिप्रदम् ॥ ६॥ इति श्रीमदुमापतिशिवप्रणीतः श्रीकल्पकगणेशपञ्चरत्नस्तवः सम्पूर्णः । Proofread by Aruna Narayanan
% Text title            : Shri Kalpakaganeshapancharatna Stava
% File name             : kalpakagaNeshapancharatnastavaH.itx
% itxtitle              : kalpakagaNeshapancharatnastavaH
% engtitle              : kalpakagaNeshapancharatnastavaH
% Category              : ganesha, pancharatna
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From shrInaTarAjastavamanjarI
% Indexextra            : (Scan)
% Latest update         : July 10, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org