असितवत्सरकृता लम्बोदरस्तुतिः

असितवत्सरकृता लम्बोदरस्तुतिः

॥ श्रीगणेशाय नमः ॥ असितवत्सरावूचतुः । लम्बोदर नमस्तुभ्यं सततं योगरूपिणे । योगाकारशरीराय योगशान्तिप्रदायिने ॥ २४॥ विघ्नेशाय महाभक्तानां विघ्नहरणाय च । अभक्तानां महाविघ्नकारिणे ते नमो नमः ॥ २५॥ स्वानन्दवासिने तुभ्यं सदा स्वानन्ददायिने । मूषकवाहनायैव मूषकध्वज वै नमः ॥ २६॥ अनाथाय गणेशाय सर्वेषां नाथरूपिणे । नाथानां नाथरूपाय विनायक नमोऽस्तु ते ॥ २७॥ हेरम्बाय च सर्वेषां मात्रे पित्रे नमो नमः । ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठानां ज्येष्ठ ते नमः ॥ २८॥ अमेयायाऽप्रेमयायाऽनन्तखेलकराय ते । अनन्तानन्तरूपायानन्तदाय नमो नमः ॥ २९॥ सिद्धिबुद्धिपते नाथ भक्तसंरक्षकाय च । नानाशक्तिप्रपालायानन्तमायाविहारिणे ॥ ३०॥ गजवक्त्राय सर्वेषामादिपूज्याय ते नमः । सर्वपूज्याय सर्वेषां सिद्धिदाय नमो नमः ॥ ३१॥ वक्रतुण्डाय वीराय चैकदन्ताय ते नमः । महोदराय देवाय देवदेवेश ते नमः ॥ ३२॥ असुराणां सहायाय नानावरप्रदाय च । असुराणां निहन्त्रे त आसुराय नमो नमः ॥ ३३॥ ब्रह्मणां पतये तुभ्यं ब्रह्मणां ब्रह्मवादिने । ब्रह्माकाराय वै ढुण्ढे वेदवेद्याय ते नमः ॥ ३४॥ मनोवाणी विहीनाय मनोवाणीमयाय च । योगेशाय परेशाय सर्वामयविवर्जित ॥ ३५॥ किं स्तुवस्त्वां गणाधीश यत्र शान्तिं समागताः । वेदा योगीन्द्रमुख्याश्चास्तुवन्तं प्रणमावहे ॥ ३६॥ एवं स्तुतो गणाधीशस्तौ जगाद महामुनी । वरं संवृणुतं विप्रौ दास्यामि भक्तियन्त्रितः ॥ ३७॥ भवद्भ्यां यत् कृतं स्तोत्रं तदेव मे प्रियं भवेत् । सर्वसिद्धिप्रदं पूर्णं तथा मद्भक्तिदायकम् ॥ ३८॥ इति असितवत्सरकृता लम्बोदरस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं पञ्चमः खण्डः । अध्यायः १० । ५.१०। २४-३८॥ - .. mudgalapurANaM pa~nchamaH khaNDaH . adhyAyaH 10 . 5.10. 24-38.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Lambodara Stuti Asitavatsarakrita
% File name             : lambodarastutiHasitavatsarakRRitA.itx
% itxtitle              : lambodarastutiH asitavatsarakRitA (mudgalapurANAntargatA)
% engtitle              : lambodarastutiH asitavatsarakRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM panchamaH khaNDaH | adhyAyaH 10 | 5.10. 24-38||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org