मासिमासिसङ्कटहरचतुर्थीपूजा

मासिमासिसङ्कटहरचतुर्थीपूजा

द्वादशस्वपि मासेषु पृथङ्नामभिरर्चयेत् । विनायकश्चैकदन्तः कृष्णपिङ्गो गजाननः ॥ लम्बोदरो भालचन्द्रो हेरम्बो विकटस्तथा । वक्रतुण्डश्चाखुवाहो विघ्नराजो गणाधिपः ॥ नाम्नां द्वादशभिश्चैतैः गणेशं पूजयेद्व्रती । (भाद्रपद) भद्रे ! भाद्रपदे मासि सङ्कष्ट्या या चतुर्थिका । अनेकफलदा प्रोक्ता सर्वसिद्धिप्रदायिनी ॥ (अश्विन) चतुर्थी चाश्विने कृष्णा सङ्कटा व्रतमुत्तमम् । दूर्वाहरिद्रयोर्होमात्सप्तद्वीपवतीपतिः । (कार्तिक) ऊर्ज (कार्तिक)कृष्णचतुर्थ्यां तु सङ्कष्टव्रतमुत्तमम् । माषान्नैश्च घृतै र्होमैः सर्वसिद्धिर्भवेन्नृणाम् ॥ (मार्गशीर्ष) मार्गशीर्षे तु या कृष्णा चतुर्थी सङ्कटा भवेत् । अष्टौ च होमयेद् द्रव्यं वैरी तु वशतामियात् ॥ (पौष) पौषे मासि महादेव ! विघ्नहन्त्री चतुर्थिका । तस्यां लम्बोदरः पूज्यः पेयं गोमूत्रमेव हि ॥ (माघ) हविष्यान्नघृतैर्होमो राजवश्यार्थमेव च । माघमासे गणाध्यक्षं फालचन्द्रं प्रपूजयेत् ॥ मोदकान्कारयेन्मातः तिलजान्दश पार्वति । देवाग्रे स्थापयेत्पञ्च पञ्च विप्राय कल्पयेत् । पूजयित्वा च तं विप्रं भक्तिभावेन देववत् । दक्षिणां च यथाशक्ति मोदकान्पञ्च दापयेत् । (फाल्गुन) फाल्गुनस्यासिते पक्षे हेरम्बाख्यो गणेश्वरः । पायसैः करवीरैश्च पुष्पैर्वश्यैश्च होमयेत् । घृतं च शर्करा चैव भोजनं कथ्यते बुधैः ॥ (चैत्र) चैत्रकृष्ण चतुर्थी या व्रतं सङ्कष्टनाशनम् । बीजपूरैर्घृतै होमैः वन्ध्या स्त्री पुत्रमाप्नुयात् ॥ (वैशाख) वैशाखस्यासिते पक्षे चतुर्थ्यां तद्दिने व्रतम् । पूजनीयो वक्रतुण्डो भोजनं शतपत्रकम् ॥ (ज्येष्ठ) मासज्येष्ठेऽसिते पक्षे गणेशस्य चतुर्थिका । सौभाग्यदायिनी देवी पतिदा सा प्रकीर्तिता ॥ तस्यामाखुरथः पूज्यो विधिना भक्तिचेतसा । भोजनं च घृतं दिव्यं ब्राह्मणान्भोजयेत्तदा ॥ (आषाढ) पार्थ आषाढमासे तु लम्बोदर इति स्मृतः । पूजनीय गणाध्यक्षः पूर्वोक्तविधिना ततः ॥ (श्रावण) अधिमास्यसिते पक्षे चतुर्थ्यां तु विधूदये । पूजनीयो विधानेन विघ्नहा नृपसत्तम ॥ यथा चोत्पद्यते शक्तिर्भक्तिभावेन चार्चयेत् । पञ्चामृतेन च स्नायात् रक्तपुष्पैः प्रपूजयेत् । गन्धधूपैश्च नैवेद्यैः दूर्वायुग्मैः सुवासितैः । मोदकान्पञ्चदशकान् घृतशर्करया युतान् । कृत्वा पञ्च गणेशाय पञ्च विप्राय दापयेत् । कुमार्यै वटकान्दत्वा स्वयं पञ्चाच्च भोजयेत् । राजन्कृष्ण चतुर्थ्यां च पूजनीयो गणाधिपः । पञ्चामृतैः षोडशभिः उपचारैश्च पूजनम् ॥ रक्तैः करवीरपुष्पैर्नैवेद्यैर्मोदकादिभिः । रक्तपुष्पाक्षतैर्दूर्वाग्राभिर्नामपदैः पृथक् ॥ विश्वप्रियायेत्याचमनं स्नानं च ब्रह्मचारिणे । वस्त्रं गणेश्वरायेति पुष्टिदायेति चन्दनम् ॥ विनायकाय पुष्पाणि धूपं चोमासुताय च । दीपं रुद्रप्रियायेति नैवेद्यं विघ्ननाशिने । ताम्बूलं फलदायेति फलं सङ्कष्टनाशिने ॥ ततः सम्प्रार्थयेद्देवं विघ्नेशं तं गणाधिपम् । संसारपीडाव्यथितं भयार्तं क्लेशार्दितं मां सुमुख प्रसीद । त्रायस्व मां दुःखदरिद्रनाशन नमो नमो विघ्नविनाशनाय ॥ पुष्पाञ्जल्यामिमं मन्त्रं चन्द्रायार्घ्यं प्रदापयेत् । ब्राह्मणे भोजनं दत्वा मोदकान्दक्षिणान्वितान् । पश्चात्स्वयं तु भुञ्जीत देवब्राह्मणशेषतः । बीजापूरगदेक्षुकार्मुकरुजाचक्राब्जपाशोत्पल- व्रीह्यग्रस्वविषाण रत्नकलशप्रोद्यत्कराम्भोरुहः । पायाद् वल्लभया सपद्मकरयाश्लिष्टो ज्वलद्भूषया विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नेश इष्टार्थदः ॥ भूमिशायी जितक्रोधो लोभदम्भविवर्जितः । प्रतिमासं युतः कुर्यात् व्रतं हेरम्बतुष्टये ॥ इति मासिमासिसङ्कटहरचतुर्थीपूजा सम्पूर्णा । Proofread by Narendran Madathil
% Text title            : Masi Masi Sankatahara Chaturthi Puja
% File name             : mAsimAsisankaTaharachaturthIpUjA.itx
% itxtitle              : mAsimAsisaNkaTaharachaturthIpUjA
% engtitle              : mAsimAsisankaTaharachaturthIpUjA
% Category              : ganesha, pUjA
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Narendran Madathil
% Description/comments  : From Vighneshvara-stuti-manjari 4
% Indexextra            : (Scans 1, 2)
% Latest update         : October 10, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org