मूषिकवाहनशतनामस्तोत्रम्
मूषिकवाहन मोदकहस्त चामरकर्ण विलम्बितसूत्र ।
वामनरूप महेश्वरपुत्र विघ्नविनायकपाद नमस्ते ॥ १॥
देवदेवसुतं देवं जगद्विघ्नविनाशकम् ।
हस्तिरूपं महाकायं सूर्यकोटिसमप्रभम् ॥ २॥
वामनं जटिलं कान्तं ह्रस्वग्रीवं महोदरम् ।
धूम्रसिन्दूरयुग्गण्डं विकटं प्रकटोत्कटम् ॥ ३॥
एकदन्तं प्रलम्बोष्ठं नागयज्ञोपवीतिनम् ।
त्र्यक्षं गजमुखं कृष्णं सुकृतं रक्तवाससम् ॥ ४॥
दन्तपाणिं च वरदं ब्रह्मण्यं ब्रह्मचारिणम् ।
पुण्यं गणपतिं दिव्यं विघ्नराजं नमाम्यहम् ॥ ५॥
देवं गणपतिं नाथं विश्वस्याग्रे तु गामिनम् ।
देवानामधिकं श्रेष्ठं नायकं सुविनायकम् ॥ ६॥
नमामि भगवन्तं तं अद्भुतं गणनायकम् ।
वक्रतुण्ड प्रचण्डाय उग्रतुण्डाय ते नमः ॥ ७॥
चण्डाय गुरु चण्डाय चण्डचण्डाय ते नमः ।
मदोन्मत्तप्रमत्ताय नित्यमत्ताय ते नमः ॥ ८॥
उमासुतं नमस्यामि गङ्गापुत्राय ते नमः ।
ओङ्काराय वषट्कार स्वाहाकाराय ते नमः ॥ ९॥
मन्त्रमूर्ते महायोगिन् जातवेदो नमो नमः ।
पर्शुपाशकहस्ताय गजहस्ताय ते नमः ॥ १०॥
मेघाय मेघवर्णाय मेघेश्वर नमो नमः ।
घोराय घोररूपाय घोरघोराय ते नमः ॥ ११॥
पुराण पूर्वपूज्याय पुरुषाय नमो नमः ।
मदोत्कट नमस्तेऽस्तु नमस्ते चण्डविक्रम ॥ १२॥
विनायक नमस्तेऽस्तु नमस्ते भक्तवत्सल ।
भक्तप्रियाय शान्ताय महातेजस्विने नमः ॥ १३॥
यज्ञाय यज्ञहोत्रे च यज्ञेशाय नमो नमः ।
नमस्ते शुक्ल भस्माङ्ग शुक्लमाल्यधराय च ॥ १४॥
मदक्लिन्न कपोलाय गणाधिपतये नमः ।
रक्तपुष्पप्रियायाथ रक्तचन्दनभूषित ॥ १५॥
अग्निहोत्राय शान्ताय अपराजय्य ते नमः ।
आखुवाहन देवेश एकदन्ताय ते नमः ॥ १६॥
शूर्पकर्णाय शूराय दीर्घदन्ताय ते नमः ।
विघ्नं हरतु देवेशः शिवपुत्रो विनायकः ॥ १७॥
इति मूषिकवाहस्य स्तोत्रं सर्वार्थसाधकम् ।
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ।
सर्वकामप्रदं पुंसां पठतां शृण्वतामपि ॥ १८॥
इति मूषिकवाहनशतनामस्तोत्रं सम्पूर्णम् ।
Proofread by Narendran Madathil