श्रीमहागणपतिपञ्चश्लोकी
(हरिहर शर्मकृता)
शूरारिसोदरमुदाराननं मुनिभिराराधितं गणपतिं
ताराधिपाभरणमारारि शैलतनयाराममागमनिधिम् ।
नारायणामरपुरारातिपङ्कज भवाराधिताङ्घ्रियुगळं
स्मेराननं निखिलघोराघशान्तिकरमाराधयामि सुमुखम् ॥ १॥
वेदागमादिनुत-खेदापहारिभव-भेदापनोदनिपुणं
पादानुरक्तनिज-पादापवर्गशुभ मोदादिदाननिरतम् ।
भेदापहारिशुभवेदागमादिगुरुपादादि शङ्करनुतं
सौदामिनी सुषम वेदागमादिरस नादात्मकं हृदि भजे ॥ २॥
वन्दारुवृन्दवरसन्दायकं कुटिलबृन्दार्त्तिनाशनपटुं
वृन्दाटवीनटन-वृन्दामनोरमण-नन्दात्मजार्चितपदम् ।
बृन्दारकेशमुनि वृन्दाभिषिक्तशुभमन्दाकिनीजलतनुं
कुन्दारविन्दसुम-वृन्दार्चितं दनुजवृन्दान्तकं हृदि भजे ॥ ३॥
मानाभिमानमद पानादिमोहित जनानाप्य सद्गुणनिधिं
ध्यानासनानशन-मानादि हीनयम-मौनाप्य मोदककरम् ।
वैनाशिकादिमद कीनाशभीतिहर दीनानुकम्पिचरणं
मानातिगं निखिलमानावलम्बमुपमानातिगं हृदि भजे ॥ ४॥
कालातिघोरभयतूलानलं शिशिरबालार्ककोटिरुचिरं
कालातिगं हृदयशैलाधिराजतनयालाळितं भज सदा ।
बालामृतांशुयुत फालाखिलागचल मूलाख्यधामनिलयं
हालाहलाभरण बालाङ्घ्रिपङ्कजममूलान्तमादिमगुरुम् ॥ ५॥
समस्तजगदाधारः सच्चिदानन्द विग्रहः ।
सुमुखः पातु मां दीनं संस्तुतः श्लोकपञ्चकैः ॥ ६॥
इति हरिहरशर्मकृता श्रीमहागणपतिपञ्चश्लोकी सम्पूर्णा ।
Proofread by Narendran Madathil