महागणपत्येकविंशतिनामस्तोत्रम्
ॐ गणञ्जयो गणपतिर्हेरम्बो धरणीधरः ।
महागणपतिर्लक्षप्रदः क्षिप्रप्रसादनः ॥ १॥
अमोघसिद्धिरमितो मन्त्रश्चिन्तामणिर्निधिः ।
सुमङ्गलो बीजमाशापूरको वरदः शिवः ॥ २॥
काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः ।
मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ॥ ३॥
यः स्तौति मद्गतमना ममाराधनतत्परः ।
स्तुतो नाम्नां सहस्रेण तेनाहं नात्र संशयः ॥ ४॥
नमो नमः सुरवरपूजिताङ्घ्रये नमो नमो निरुपममङ्गलात्मने ।
नमो नमो विपुलकरैकसिद्धये नमो नमः करिकलमाननाय ते ॥ ५॥
किङ्किणीगणरणितस्तव चरणः प्रकटितगुरुमितिचारित्रगणः ।
मदजललहरिकलितकपोलः शमयतु दुरितङ्गणपतिनृपनामा ॥ ६॥
इति महागणपत्येकविंशतिनामस्तोत्रं सम्पूर्णम् ।