महोदरस्तुतिः तुरेण प्रोक्ता

महोदरस्तुतिः तुरेण प्रोक्ता

समागत्य स दैत्येन्द्रो ननाम स महोदरम् । भक्तिभावसमायुक्तः पूजयामास यत्नतः ॥ २२॥ पूजयित्वा यथान्यायं पुनस्तं प्रणनाम सः । कृत्वा करपुटं मोहस्तुष्टाव च महोदरम् ॥ २३॥ मोहासुर उवाच - नमस्ते ब्रह्मरूपाय महोदर! सुरूपिणे । सर्वेषां भोगभोक्त्रे वै देहदेहिमयाय च ॥ २४॥ मूषकारूढदेवाय त्रिनेत्राय नमो नमः । चतुर्भुजाय देवानां पतये ते नमो नमः ॥ २५॥ अनादये च सर्वेषामादिरूपाय ते नमः । विनायकाय हेरम्ब! दीनपालाय वै नमः ॥ २६॥ गणेशाय निजानन्दपतये ब्रह्मनायक! । सिद्धिबुद्धिप्रदात्रे वै ब्रह्मभूताय वै नमः ॥ २७॥ ब्रह्मभ्यो ब्रह्मदात्रे वै योगशान्तिमयाय च । योगिनां पतये तुभ्यं योगिभ्यो योगदायक ! ॥ २८॥ सिद्धिबुद्धिपते! नाथ! एकदन्ताय ते नमः । शूर्पकर्णाय शूराय वीराय च नमो नमः ॥ २९॥ सर्वेषां मोहकर्त्रे वै भक्तेभ्यः सुखदायिने । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ ३०॥ मायाविने च मायाया आधाराय नमो नमः । मायिभ्यो मायया चैव भ्रान्तिदाय नमो नमः ॥ ३१॥ किं स्तौमि त्वां गणाध्यक्ष! यत्र वेदाः सहाङ्गकाः । शान्तिं प्राप्तास्तथाऽपि त्वं संस्तुतोऽसि दयापरः ॥ ३२॥ धन्यौ मे पितरौ ज्ञानं तपः स्वाध्याय एव च । धन्यं वपुश्च देवेश! येन दृष्टं पदाम्बुजम् ॥ ३३॥ महोदर उवाच । मदीयं सोत्रमेतद्वै सर्वदं यत्त्वया कृतम् । भविष्यति जनायैव पठते श‍ृण्वतेऽसुर! ॥ ३७॥ मोहनाशकरं चैव भुक्तिमुक्तिप्रदं भवेत् । धनधान्यादिदं सर्वं पुत्रपौत्रसुखप्रदम् ॥ ३८॥ इति तुरेण प्रोक्ता महोदरस्तुतिः समाप्ता । ३.१० Encoded by Ajit Krishnan Proofread by Ajit Krishnan, PSA Easwaran
% Text title            : Mahodara Stuti by Ture
% File name             : mahodarastutiHtureNaproktA.itx
% itxtitle              : mahodarastutiH tureNa proktA (mudgalapurANAntargatA)
% engtitle              : mahodarastutiH tureNa proktA
% Category              : ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ajit Krishnan
% Proofread by          : Ajit Krishnan, PSA Easwaran
% Description/comments  : Mudgalapurana, Khanda 1, Adhyaya 10
% Indexextra            : (mudgalapurANa)
% Latest update         : April 23, 2020
% Send corrections to   : Sanskritcheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org