गौतमाद्या महर्षयःकृता श्रीमयूरेश्वरस्तुतिः
कमलाकान्तहृदय ! हृद्दयानन्दवर्धन ! ।
कमलाकान्तनमित ! कमलासुरनाशन ! ॥ २१॥
कमलासेवितपद ! जय त्वं कमलाप्रद ! ।
कमलासनवन्द्येश ! कमलाकरशीतल ! ॥ २२॥
कमलाङ्कसुपादाब्ज ! कमलाङ्कितसत्कर ! ।
कमलाबन्धुतिलक ! भक्तानां कमलाप्रद ! ॥ २३॥
कमलासूनुरिपुज ! कमलासूनुसुन्दर ! ।
कमलापितृरत्नानां मालया जय शोभित ! ॥ २४॥
कमलासुरबाणानां कमलेन निवारक ! ।
कमलाक्रान्तकमलकोशजित्करपङ्कज ! ॥ २५॥
कमलापतिहस्तस्थपद्मकोशनिभेक्षण ! ।
सर्वहृत्कमलानन्द जय सर्वाघनाशन ! ॥ २६॥
कमलाङ्कुशहस्ताब्ज ! जयविघ्नहराव्यय ! ।
त्वया विनिहतः पापः शक्रादिभयदो रिपुः ॥ २७॥
वज्रचक्राद्यभेद्यो यो मुनीनामपि भीतिदः ।
एवं स्तुत्वा पुपूजस्ते गौतमाद्या महर्षयः ॥ २८॥
दशभिर्दोर्भिरालिङ्ग्य पुपूज गिरिशोऽपि तम् ।
ततस्ते मुनयः प्रोचुर्मयूरेशं चशङ्करम् ॥ २९॥
अत्रत्वं सर्वदा तिष्ठ सर्वदेवगणैर्युतः ।
पूरयन् भक्तकार्याणि वारयन् विघ्नसञ्चयान् ॥ ३०॥
इति गौतमाद्या महर्षयःकृता श्रीमयूरेश्वरस्तुतिः सम्पूर्णा ॥
- ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः १०३ । २.१०३ २१-३०॥
- .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 103 . 2.103 21-30..
Proofread by Preeti Bhandare