नारायणप्रोक्तं गणेशकवचम्
(नारायणप्रोक्तं गणेशाष्टकम्)
दशलक्षजपेनैव सिद्धं तु कवचं भवेत् ।
संसारमोहकस्याऽस्य कवचस्य प्रजापतिः ॥ ५३॥
ऋषिश्छन्दो बृहती च देवो लम्बोदरः स्वयम् ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ५४॥
ॐ गं हुं श्रीगणेशाय स्वाहा मे पातु मस्तकम् ।
द्वात्रिंशदक्षरो मन्त्रो ललाटं मे सदाऽवतु ॥ ५५॥
ॐ ह्रीं श्रीं गमिति वै सततं पातु लोचने ।
तालुकं पातु विघ्नेशः सततं च धरातले ॥ ५६॥
ॐ ह्रीं श्रीं क्लीमिति परं सन्ततं पातु नासिके ।
ॐ गौं गं शूर्पकर्णाय स्वाहा पात्वधरौ मम ॥ ५७॥
दन्ताँश्च तालुके जिह्वां पातु मे षोडशाक्षरः ।
ॐ लं श्रीं लम्बोदरायेति स्वाहा गण्डौ सदाऽवतु ॥ ५८॥
ॐ क्लीं ह्रीं विघ्ननाशाय स्वाहा कर्णौ सदाऽवतु ।
ॐ श्रीं गं गजाननायेति स्वाहा स्कन्धं सदाऽवतु ॥ ५९॥
ॐ ह्रीं विनायकायेति स्वाहा पृष्ठं सदाऽवतु ।
ॐ क्लीं ह्रीमिति काङ्कलं पातु वक्षःस्थलं परम् ॥ ६०॥
करौ पादौ सदा पातु सर्वाङ्गं विघ्ननाशकृत् ।
प्राच्यां लम्बोदरः पातु चाग्नेय्यां विघ्ननायकः ॥ ६१॥
दक्षिणे पातु विघ्नेशो नैरृत्यां तु गजाननः ।
पश्चिमे पार्वतीपुत्रो वायव्यां शङ्करात्मजः ॥ ६२॥
कृष्णस्यांशश्चोत्तरे च परिपूर्णतमस्य च ।
ऐशान्यामेकदन्तश्च हेरम्बः पातु चोर्ध्वतः ॥ ६३॥
अधो गणाधिपः पातु सर्वपूज्यश्च सर्वतः ।
स्वप्ने जागरणे चैव पातु मां योगिनां गुरुः ॥ ६४॥
इत्येतत्कवचं कृष्णो गोलोकेऽदात्स्वयं तु मे ।
मया नारायणेनात्र यमादिसुरसन्निधौ ॥ ६५॥
शनैश्चरायाऽर्पितं तत् सर्वसङ्कटतारकम् ।
तदेवेदं महालक्ष्मि ! सर्वेभ्यः श्रावितं मया ॥ ६६॥
गुरुमभ्यर्च्य विधिवत् कवचं धारयेत्तु यः ।
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुसमो भवेत् ॥ ६७॥
सर्वत्र विजयी पूज्यो भवेद्ग्रहणमात्रतः ।
भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ॥ ६८॥
डाकिनीयोगिनीयक्षवेताला भैरवादयः ।
बालग्रहा ग्रहाश्चैव क्षेत्रपालादयस्तथा ॥ ६९॥
वर्मणः शब्दमात्रेण पलायन्ते तु भीरवः ।
ऋजवे गुरुभक्ताय स्वशिष्याय प्रकाशयेत् ॥ ७०॥
अथ गणेशदेवस्याऽष्टकं वक्ष्ये सुखप्रदम् ।
यत्पाठकं स्वयं कृष्णो गणेशोऽवति सर्वदा ॥ ७१॥
ॐ नमोऽन्तःसुसत्त्वाय शिवसत्त्वाय ते नमः ।
ॐ नमः कृष्णरूपाय शैलजाङ्गाय ते नमः ॥ ७२॥
ॐ नमो वृद्धविप्राय सत्त्वसंस्थाय ते नमः ।
ॐ नमः पिण्डरूपाय न्यस्तचित्ताय ते नमः ॥ ७३॥
ॐ नमः सिद्ध्यधिष्ठाय सर्वविद्याय ते नमः ।
ॐ नमो गोपुरत्रात्रे मात्राज्ञापाय ते नमः ॥ ७४॥
ॐ नमोऽस्त्वलक्ष्यपित्रे पितृशस्त्याय ते नमः ।
ॐ नमः स्कन्धरूपाय कर्याननाय ते नमः ॥ ७५॥
ॐ नमः शिवपुत्राय सर्वपूज्याय ते नमः ।
ॐ नमश्चाग्रजार्चाय लड्डुकाद्याय ते नमः ॥ ७६॥
ॐ नमो विघ्ननाशाय मूषकासनिने नमः ।
ॐ नमो हेतिलाभाय चिरजीवाय ते नमः ॥ ७७॥
ॐ नमो दिव्यवर्ष्मणे भव्यवर्मणे ते नमः ।
ॐ नमः कवचाऽऽप्याय वचोऽव्ययाय ते नमः ॥ ७८॥
ॐ नमो मङ्गलाढ्याय भक्तिदार्ढ्याय ते नमः ।
ॐ नमः श्रीगणेशाय श्रीकृष्णाय नमो नमः ॥ ७९॥
इति स्तुत्वा नरो भक्त्याऽमरो भवति मोक्षगः ।
गणेशवृत्तमित्युक्तं किं भूयः श्रोतुमिच्छसि ॥ ८०॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने १०५-अध्यायान्तर्गतं
नारायणप्रोक्तं गणेशकवचं तथा गणेशाष्टकं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय १०५/५३-८०॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 105/53-80..
Proofread by PSA Easwaran